पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रह्लाद चरितवर्णनम् । गिरीन्द्रावक्षिप्तोऽप्यहह परमात्मन्नयि विभो ! त्वयि न्यस्तात्मत्वात् किमपि न निपीडामभजत ॥ ७ ॥ दशकम् - २४] स इति । परमात्माने त्वाय न्यस्त आत्मा मनो यस्य | अथवात्मा जीवः, ब्रह्मभूतत्वादित्यर्थः ॥ ७ ॥ ततः शङ्काविष्टः स पुनरतिदुष्टोऽस्य जनको गुरूक्त्या तद्द्वेहे किल वरुणपाशैस्तमरुणत् । गुरोधासान्निध्ये स पुनरनुगान् दैत्यतनयान् भवद्भक्तेस्तत्त्वं परममपि विज्ञानमशिषत् || ८ || तत इति । तदेहे गुरुगृहे स महादोऽनुगान् सखीन् भवद्भक्तेस्तत्त्वं स्वरूपं कारणं फलं च परमं विज्ञानं ब्रह्मज्ञानमप्याशेषद् उपदिदेश || ८ || पिता शृण्वन् बालप्रकरमखिलं त्वत्स्तुतिपरं रुवान्धः माह्रैनं कुलहतक ! कस्ते बलमिति । बल मे वैकुण्ठस्तव च जगतां चापि स बलं स एव त्रैलोक्यं सकलमिति धीरोऽयमगदीत् ॥ ९ ॥ पितेति । कुलहतक ! अनुराधम ! ममाशालङ्घने कस्ते बलमिति पिता प्राह पप्रच्छ । वैकुण्ठो विष्णु बलं, न केवलं मम, तवापि त्रिभुवनविजये स बिष्णुरेव बलं, जगतां जगद्वासिनामपि । किञ्च सकलं त्रैलोक्यं स विष्णुरेव, न ततः पृथक् किञ्चिदप्यस्तीत्ययं प्रह्लादोऽगदीद व्यक्तमुक्तवान् | धीरो निर्भयो विद्वान् वा ॥ ९ ॥ तदनन्तरं हिरण्यकशिपोः प्रवृत्तिमाह - BUTY अरे ! कासौ कासौ सकलजगदात्मा हरिरिति मभिन्ते स्म स्तम्भं चलितकरवालो दितिसुतः । अतः पश्चाद् विष्णो! न हि वदितुर्माशोऽस्मि सहसा कृपात्मन् ! विश्वात्मन् ! पवनपुरवासिन्! मृडय माम् ॥ १० ॥ १. 'इ' क.. घ. पाठ