पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये सबै जात्या दैत्यः शिशुरपि समेत्य त्वयि रतिं - गतस्त्वद्भक्तानां वरद! परमोदाहरणताम् ॥ ४ ॥ तत इति । हिरण्यकशिपौ तपसे मन्दराद्रिं गतवति देवा असुरान् निर्जि- यान्तवली महादमातरं कयाधुं नेतुमारब्धा नारदवचनाद् विसृज्य प्रति- निवृत्ताः । देवर्षिस्तु तस्यै प्रह्लादमुद्दिश्य भक्तिज्ञानमार्गानुपदिदेश | अतोऽसौ शिशुरपि त्वयीश्वरे रतिं प्रेमलक्षण भक्तिम् ॥ ४ ॥ 1 सुरारीणां हास्यं तव चरणदास्यं निजसुते सदृष्ट्वा दुष्टात्मा गुरुभिरशिशिक्षचिरममुम् । गुरुप्रोक्तं चासाविदमिदमभद्राय दृढाम- - त्यपाकुर्वन् सर्वे तव चरणभक्त्यैव वधे ॥ ५ ॥ सुराणामिति । गुरुभिः शुक्रपुत्राभ्यां शण्डामर्काभ्याम् | गुरुप्रोक्तं त्रिव- गॅस्योपायं वार्तादण्डनीत्यादि मेददृष्ट्याश्रितत्वादिदमिदमभद्राय शरीरबन्धेन संसा- राय भवति दृढं निश्चितमिति त्वद्भक्तेरन्यत् सर्वमपाकुर्वन् तव चरणभक्त्या केवलया । अस्य शरीरवृद्धयनुसारेण भक्तिरपि ववृध इत्यर्थः ॥ ५ ॥ अधीतेषु श्रेष्ठं किमिति परिपृष्टेऽथ तनये भवद्भक्ति वर्यामभिगदति पर्याकुलधृतिः । गुरुभ्यो रोषित्वा सहजमतिरस्येत्यभिविदन् वधोपायानस्मिन् व्यतनुत भवत्पादशरणे ॥ ६ ॥ [ स्कन्धः-७ अधीतेष्विति । अथ कदाचित् पित्रा त्वयाधीतेषु मध्ये किं श्रेष्ठमिति तनये प्रह्लादे पृष्ठे संति भवद्भक्ति वर्या श्रेष्ठामभिगदति च सति पर्याकुला चलिता धृतिर्यस्मात् स तथा अस्य मतिः सहजेति गुरुमुखादभिविदन् अस्मिन् महादे वधोपायान् व्यतनुत ॥ ६ ॥ बधोपायानाह-- PAKAR स शुलैराविद्धः सुबहु मथिती दिग्गजगणै- महासर्पैर्दष्टोऽप्यनशनगराहारविधुतः ।