पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये भक्त्यात्मतत्त्वकथनैः समरे विचित्रं शत्रोरपि गतः पदं ते ॥ १० ॥ [स्कन्धः -- ६ - निःसम्म इति । ततश्चासौ निःसम्भ्रमः शापभयरहितः समर आत्मत- स्वकथनैः शत्रोरिन्द्रत्यापि अममज्ञानसपास्य तद्वज्रेण हतः ते पदं बैकुण्ठं गतः । चित्रमाश्चर्यमेतत्। अत्र गुरुहेलनेनाखरेभ्यः पराजितैर्देवैः पौरोहित्याय वृतो विश्व- रूपः । स तु दितियतया मान रहसि दैत्येभ्यो हविर्भागं दत्तवान् | इन्द्र तदाळक्ष्यास्थ शिरोस्यवृश्चत् । ततश्च स्वर्हतपुत्रस्याभिचारकुण्डा दुत्थितो वृत्रः समरभुवि इन्द्रेण हत इतिहाइवे ॥ १० ॥ अथ दितेर्घोरसङ्कल्पादिन्द्रस्य महवाच भगवदनुग्रहाच्छ्रेयः प्राप्तिमाह ---- त्वत्सेदनेन दितिरिन्द्रोद्यतापि तान् प्रत्युतेन्द्रसुहृदो मरुतोऽभिलेभे । दुष्टाशयेऽपि शुभदैव भवनिषेवा तत्तादृशस्त्वमव मां पवनालयेश | ॥ ११ ॥ त्वदिति । दितिरिन्द्रबोशा काश्यपं प्रसाद्य इन्द्रहणं पुत्रं वृतवती । तस्माद् गर्ने चाधत । तथापि त्वत्सेवनेन काश्यपोपदिष्टपुंसवनवतानुष्ठानेनेन्द्रहणं पुत्रं लेभे | अपितु प्रत्युतविपरीतं जातम् । इन्द्रेणाकाले स्वपन्त्या दितेरुदरं प्र- विश्य ये सप्त सप्तधा वृवणास्तानिन्द्रस्य सुहृद्रो महत एकोनपञ्चाशत्पुत्रानभिलेभे। एवं च दुष्टाशयेऽपि भवन्निषेवा शुभदैव, यथा वितेरिन्द्रस्य च | तत्तादृशोऽनन्य- सहशः ॥ ११ ॥ २२ ॥ इति चित्रकेतूपाख्यानं मरुत्पत्तिवर्णनं च त्रयोविंशं दशकं सैकम् । इति नारायणीयस्तोत्रव्याख्यायां भक्तप्रियाख्यायां षष्ठस्कन्धपरिच्छेदः । आदितः लोकसङ्ख्या २४३.