पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चित्रकेतूपाख्यानम् | विद्याधराधिपतितां स हि सप्तरात्रे • लब्ध्वाप्यकुण्ठमतिरन्वभजद् भवन्तम् ।। ६ ।। दशकम् -- २३] स्तोत्रमिति | शेषवपुषोऽनन्तमूर्तेः ते तव हरेस्तोषाय प्रसादाय तपस्यन् स चित्रकेतुः सप्तरात्रे सप्तरात्रान्ते विद्याधराधिपतितां लब्ध्वा भवन्तं शेषमूर्तिम् ॥ ६ ॥ त्वं चानन्तरूपेण प्रादुर्भूयात्मतत्त्वमुपदिश्य तिरोहितवानित्याह-- तस्मै मृणालघवलेन सहस्रशीर्णा रूपेण बद्धनुतिसिद्धगणावृतेन । प्रादुर्भवन्नचिरतो नुतिभिः प्रसन्नो दत्त्वात्मतवमनुगृह्य तिरोद्वाथ ॥ ७ ॥ त्वद्भक्तमौलिरथ सोऽपि च लक्षलक्षं वर्षाणि हर्षुलमना भुवनेषु कामम् । सङ्गापयन् गुणगणं तव सुन्दरीभिः सङ्गातिरेकरहितो ललितं चचार ॥ ८ ॥ स्वदिति । (ते?) तव गुणगणं हरिचरितं विद्याधरसुन्दरीभिः सङ्गापयन् ॥ अत्यन्तसङ्गविलयाय भवत्मणुओं नूनं स रूप्यगिरिमाप्य महत्समाजे । निश्शमककृतवल्लभमजारि तं शङ्करं परिहसनुमयाभिशेषे ॥ ९ ॥ अत्यन्तेति । स च श्रीशङ्करं परिहसन् उमयाभिशेपे आसुरी योनिं याही- ति शप्तोऽभूत् । स्वतः सङ्गातिरेकरराहतस्यात्यन्तसङ्गविलयाय भववेश्वरेण प्रणुनः प्रेरितोऽसौ नूनमिति तर्कयामि, अन्यथा तस्य देवहेलनायोगात् ॥ ९ ॥ निस्सम्भ्रमस्त्वयमयाचितशापमोक्षो वृत्रासुरत्वमुपगम्य सुरेन्द्रयोधी । १. 'ति' ख. पाठ:. २. 'पः प्रा' ख. पाठ:.