पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ट्या ततो दुहितृभिः सृजतः कुलौघान् दौहित्रमनुरथ तस्य स विश्वरूपः । त्वत्स्तोत्रच मितमजापयदिन्द्रमाजौ देव ! त्वदीयमहिमा खलु सर्वत्रः ॥ ३ ॥ षष्टयेति । ततः षष्ट्या दुहितृभिरदितिदित्याद्याभिः कुलमान स्थिरचरमे- दसमूहान् सृजतोऽस्य दक्षस्य दौहित्रो दितेः पुत्रस्त्वष्ट | तत्सूनुस्त्याष्ट्रो विश्वरूपः | सः त्वत्तोत्रे नारायणात्मकेन वर्मणा वर्मितं कृतरक्षम् इन्द्रम् आजौ देवासुरयुद्धे अजापयद् +जयमकरोत् ॥ ३ ॥ अथ वृत्रवधप्रस्ताचाय प्राग्जन्मकथामाह् प्राकू शूरसेनविषये किल चित्रकेतुः पुत्राग्रही नृपतिरङ्गिरसः प्रभावात् । लब्ध्वैकपुत्रमथ तत्र हते सपत्नी- सरदवशस्तव माययासौ ॥ ४ ॥ प्रागिति | अङ्गिरस: प्रभावात् तत्कृतयज्ञोच्छिष्टप्राशनेन ज्येष्ठभार्यायामेकं पुत्रं लब्ध्वा तत्र तस्मिन् पुत्रेपली ॥ ४ ॥ तं नारदस्तु सममङ्गिरसा दयालुः सम्माप्य तावदुपदर्य सुतस्य जीवम् । कस्यास्मि पुत्र इति तस्य गिरा विमोह त्यक्त्वा त्वदर्चनविधौ नृपतिं न्ययुङ्क्त ॥ ५ ॥ तमिति । अङ्गिरसा समं सह सुतस्य मृतस्य जीवं योगबलेनोपदर्श्य दर्श- यित्वा अहं कस्य पुत्रोऽस्मीति तस्य गिरा नृपतेर्विमोहं क्या ॥ ५ ॥ स्तोत्रं च मन्त्रमपि नारदतोऽथ लब्ध्वां तोपाय शेषत्रपुषो ननु ते तपस्यन् । + जयन्तं प्रयोजितवान् ।