पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चित्रकेतूपाख्यानम् । भक्तेषु भवद्भिर्न गम्यतां भगवद्भक्ताः परिहरणीया युष्माभिरित्युच्चकै र तिनिर्बन्धेन स्वभृत्यानशिशिक्षत् शिक्षितवान् | तादृशभक्तवात्सल्ययुक्तस्त्वं पाहि ॥ ११ ॥ इत्यजामिलोपाख्यानं द्वाविंशं दशकं सैकम् | दशकम् - २३] - एवमजामिलदृष्टान्तेन नृणामनुप्रहमुक्त्वा स्वार्गेणां भगवदनुग्रहं दर्शयितुं दक्षकथामारभते- -34 माचेतसस्तु भगवनपरोऽपि दक्ष- स्त्वत्सेवनं व्यक्ति सर्गविवृद्धिकामः । आविर्बभूविथ तदा लसदष्टबाहु- स्तस्मै वरं ददिय तां च वधूमसिनीम् ॥ १ ॥ प्राचेतस इति । प्राचीनबर्हिषः पुत्रा दश प्रचेतसः, तेषां पुत्रः प्राचे- तसो दक्षः । अपरो ब्रह्मपुत्राद् दक्षादन्यः । स मनसैवेमाः प्रजाः सृष्ट्वा पुनस्तद्वि- वृद्धिका मस्त्वत्सेवनं व्यक्ति कृतवान् | लंच वरं त्वत्तः प्रभृति व्यवायधर्मेण प्रजासर्गो भविष्यतीत्येवं रूपं, तां पञ्चजनदुहितरम् असिक्की वधूं भार्थी च ददिश दत्तवान् ॥ १ ॥ तस्यात्मजास्त्वयुतमीश ! पुनः सहस्रं श्रीनारदस्य वचसा तव मार्गमापुः । नैकत्रवासमृषये मुमुचे स शापं भक्तोत्तमस्त्वषिरनुग्रहमेव मेने ॥ २ ॥ तस्येति । तस्य दक्षस्य हर्यश्वसंज्ञा अनुतमात्मजा आसन् । पुनः शब- लावसंज्ञाः सहस्रं च सुता आसन् । ते सर्वेऽपि पितुरादेशात सर्गवृद्धये तपः कुर्वन्तः श्रीनारदस्य वचसा निवृत्तिमार्गोपदेशरूपेण तव मार्ग मोक्षमापुः प्राप्त- वन्तः । स दक्षः क्रुद्धो मुनये श्रीनारदाय नैकत्रवास सदासञ्चारित्वं शापं मुमुचे | ऋषिस्तु भक्तोत्तमत्वेन तमनुग्रहमेव मेने ॥ २ ॥