पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ षष्टस्कन्धपरिच्छेदः । कृतेऽपि पापे भक्तानां यातना नव नारकी । इति षष्ठगतो विष्णोः स्तूयतेऽनुग्रहोऽधुना || अथाजामिलोपाख्यानमारमते अज्ञानिकाराधिः- अजामिलो नाम महीसुरः पुरा चरन विभो ! धर्मपथान् गृहाश्रमी । गुरोगिरा काननमेत्य दृष्टवान् सुषृष्टशीलां कुलटां मदाकुलाम् ॥ १ ॥ अजामिल इति । पुराजामिलो नाम अजामिमकुलीनां स्त्रियं लात्यादत इत्यजामिल इति प्रसिद्धः कश्चिद् महीमुरो गृहाश्रमी स्वाश्रमोचितान् धर्मपथान् प्रवृचितिवृत्तिमार्गान् चरन् अनुतिष्ठन् गुरोगिंरा पितुर्निर्देशन फलपुष्पसमित्कुशा- नाह काननत्य सुवृष्टमतिशयेन श्रृष्टं मिथ्याविलासादिभिः परमतिबञ्चनसमर्थ शील यस्याः, मदाकुलां मधुमदखेलगमनां काञ्चित् कुलटां पुंधली दृष्टवान् ॥ १॥ स्वतः प्रशान्तोऽपि तदाहताशयः स्वधर्मयुत्सृज्य तथा समारमन् | अधर्मकारी दशमी भवन् पुनदेवी भवनामते ते तिम् ॥ २ ॥ स्वत इति । ततश्च स्वतः प्रशान्तोऽप्यसौ तयाहृत आशयो यस्य स तथा स्वधर्म सहधर्मचारिणी चोत्सृज्य तथा सह समारमन् तस्याः कुडुम्बभरणायाध- र्मकारी बभूव । पुनश्च दशमी भवन् जरठः सन् भवन्नामयुते नारायणाये सुते चालके दशमपुत्रे रतिमतिस्नेहं दधौ ॥ २ ॥ स मृत्युकाले यमराजकिङ्करान् भयङ्करांस्त्रीनभिलक्षयन् भिया । पुरा मनाक् त्वत्स्मृतिवांसनावलाज्जुहाव नारायणनामकं सुतम् ॥ ३ ॥ स इति । मृत्युकाले मरणसमये मनागू ईषत् स्वस्मृतेर्भगवदुपासनाया या वासना संस्कारस्तइलादू नारायणनामकं सुतं जुहाव नारायण ! इत्याजु- हाव ॥ ३ ॥ दुराशयस्यापि तदात्वनिर्गतत्वदीयनामाक्षरमाञवैभवात् । पुरोऽभिपेतुर्भवदीय पार्षदाश्चतुर्भुजाः पीतपटा मनोहराः ॥ ४ ॥