पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जम्बूद्वीपादिषु भगवदुपासनाप्रकारवर्णनम् । १०७ श्रीति । साङ्ख्यं प्रकृतिपुरुषविवेकज्ञानं, योगोऽष्टाङ्गः, ताभ्यां नुति- दशकम् - २१] - भिश्च ॥ ९ ॥ इमं जम्बूद्वीपं परितः क्रमात् लक्षशाल्मलिकुशकौञ्चशाकपुष्करनामानः षड् द्वीपाः । तत्र क्रमादर्केन्दुवचम्बुवायुब्रह्मरूपेण तत्रत्या भगवन्तं भजन्तीत्याह--- प्लार्करूपमयि शाल्मल इन्दुरूपं द्वीपे भजन्ति कुशनामनि वह्निरूपम् | क्रौञ्चेऽम्बुरूपमथ वायुमयं च शाके त्वां ब्रह्मरूपमाय पुष्करनानि लोकाः ॥ १० ॥ अथ ज्योतिरनीकात्मकस्य भगवत उपासनाप्रकारमाह -- सर्वैर्भुवादिभिरुडुकरैश्च पुच्छादिकेष्ववयवेष्यभिकल्प्यमानैः । त्वं शिशुमारवपुषा महतामुपास्यः सन्ध्यासु रुन्धि नरकं मम सिन्धुशायिन् ! ॥ ११ ॥ सर्वैरिति । उड्डप्रकरैरश्विन्यादिभिः ग्रहैः सूर्यादिभिर्यथाक्रमं पुच्छाद्यवय बेषूपासकैरभिकल्प्यमानैरुपलक्षितस्त्वं शिंशुमारवपुषा अवाक्शिरसः कुण्डली भूत- शरीरस्य शिंशुमारस्य वपुरिव वपुर्यस्य, तद्रूपेण महतां महद्भिः सन्ध्यासु त्रिका- लमुपास्यः ॥ ११ ॥ अथ प्रपञ्चस्योद्धारकं शेषमूर्ति स्तौति --- पातालमूलभुवि शेषतनुं भवन्तं लोलैककुण्डलविराजिसहस्रशीर्षम् नीलाम्बरं धृतहलं भुजगाङ्गनाभि- t जुष्टं भजे हर गदान् गुरुगेहनाथ | || १२ || २२ ॥ इति जम्बूद्वीपादिषु भगवदुपासनाप्रकारवर्णनम् एकविंशं दशकं सद्विकम् । इति नारायणीयस्तोत्रव्याख्यायां भक्तप्रियाख्यायां पञ्चमस्कन्धपरिच्छेदः । आदितः श्लोकसङ्ख्या २२९.