पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये भक्तैकवत्सलममत्सरहत्सु भान्तं मत्स्याकृति भुवननाथ ! भजे भवन्तम् ॥ ५ ॥ रम्य इति । रम्यकवर्षनाथेन वैवस्वतेन मनुवर्येण सपर्यमाणमारा- ध्यमानम् ॥ ५ ॥ वर्ष हिरण्मयसमाइयमौत्तराह- मासीन मदिधृतिकर्मठका मठाङ्गम् । संसेवते पितृगणनवरोऽयमायं [स्कन्धः - ५ तं त्वां यजागि भगवन् ! परचिन्मयात्मन् ! ॥ ६ ॥ चर्षमिति । औत्तराहम् उत्तरदिग्भवम् । अद्रिधृतिकर्मटम् अमृतमथने मन्दराद्विधारणौपायकं कामठं कौर्ममङ्गं यस्य । परचिन्मयात्मन् ! विशुद्धज्ञान- स्वरूप ! ॥ ६ ॥ किञ्चोत्तरेषु कुरुषु मियया धरण्या संसेवितो महितमन्त्रनुतिप्रभेदैः । दंष्ट्राग्रवृष्टघनपृष्ठगरिष्ठवर्ष्मा त्वं पाहि विज्ञनुतयज्ञवराहमूर्ते ! ॥ ७ ॥ किञ्चेति । दंष्ट्राग्रेण घृष्टं वनपृष्ठं येन तादृशं गरिष्ठमत्युन्नतं च वर्ष्म स्व- रूपं यस्य । विज्ञैर्ज्ञानिभिर्नुता स्तुता यज्ञवराहरूपा मूर्तिर्यस्य ॥ ७ ॥ याम्यां दिशं भजति किम्पुरुषाख्यवर्षे संसेवितो हनुमता दृढभक्तिभाजा । सीताभिरामपरमातरूपंशाली १. 'रव' क. पाठ:. रामात्मकः परिलसन् परिपाहि विष्णो ! ॥ ८ ॥ याम्यामिति । याम्यां दिशं भजति इलावलममनन्तरंदेशवर्तिनि ॥ ८ ॥ श्रीनारदेन सह भारतखण्ड मुख्यै- स्त्वं योगनुतिभिः समुपास्यमानः | आकल्पकालमिह साधुजनाभिरक्षी नारायणो नरसखः परिपाहि भूमन् ! ॥ ९ ॥