पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् – २१] जम्बूद्वीपादिषु भगवदुपासनाप्रकारवर्णनम् । - १०५ अथ लोकरक्षायै तत्तद्भूखण्डेषु तत्तद्रूपेण सन्निदधानं भगवन्तं स्तौति- मध्योगवे व नाम्नि वर्षे गौरीप्रधानवनिताजनमात्रभाजि । शर्वेण मन्त्रनुतिभिः समुपास्यमानं सङ्कर्षणात्मकमधीश्वर ! संश्रये त्वाम् ॥ १ ॥ मध्योद्भव इति । भुवो मध्यं जम्बूद्वीपः, तन्मध्यभवे वर्षे खण्डे । गौरी- शापेन पुरुषागम्यतयात्र शर्व एक एव पुरुषः । अतो गौरीप्रधानं वनिताजनमा- श्रमेव भजतीति तथा । शर्वेण मन्त्रैर्नुतिभिश्च ॥ १ ॥ भद्राश्वनामक इलाहतपूर्ववर्षे भद्रश्रवोभिरृषिभिः परिचूयमानम् | कल्पान्तगूढ निगमोद्धरणप्रवीणं ध्यायामि देव ! हयशीर्षतनुं भवन्तम् || २ || ध्यायामि दक्षिणगते हरिवपवर्षे महादमुख्यपुरुषैः परिषेव्यमाणम् । उत्तुशान्तभवलाकृतिमेकशुद्ध- ज्ञानमदं नरहरिं भगवन् ! भवन्तम् || ३ || ध्यायामीति | एकं शुद्धं निरुपाधिकं ज्ञानं ददातीति तथा ॥ ३ ॥ वर्षे प्रतीचि ललितात्मनि केतुमाले लीलाविशेषललितस्मितशोभनाङ्गम् । लक्ष्म्या प्रजापति निषेव्यमाणं तस्याः प्रियाय घृतकामतनुं भजे त्वाम् ॥ ४ ॥ वर्ष इति । धृतकामतनुम् अङ्गीकृतकामदेवस्वरूपम् ॥ ४ ॥ रम्येऽप्युदीचि खलु रम्यकनानि वर्षे तदर्षनाथमतुवर्यसपर्यमाणम् * ।