पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ नारायणीये [स्कन्धः - ५ जितेन्द्रदत्तां कमनी जयन्तीमथोत्परताशयोऽपि । अजीजनत् तत्र शतं तनूजान् येषां क्षितीशो भरतोऽग्रजन्मा ॥ ६ ॥ जितेति । योगशक्त्या जितेनेन्द्रेण दत्ताम् । आत्मरतः आत्मनः श्रीहरु- पासन एवोत्सुक आशयोऽन्तःकरणं यस्य || ६ || नवाभवन् योगिवरा नवान्ये त्वपालयन भारतवर्षखण्डान् । सैका त्वशतिस्तव शेषत्रास्तपोवाद् भूसुरभूमीयुः ॥ ७ ॥ नवेति । भारतवर्षखण्डान् कुशावर्तेलावर्तब्रह्मावर्तमलयकेतुमद्रसेनविदर्भ- कीकटादन | सैका अशीतिरेकसहिता अशीतिः | रभूयं ब्राह्मणत्वम् ॥ ७॥ उक्त्वा सुतेभ्योऽथ मुनीन्द्रमध्ये विरक्तिभक्त्यन्वितमुक्तिमार्गम् । स्वयं गतः पारमहंस्यवृत्तिमधा जडोन्मत्तपिशाचचर्यास् ॥ ८ ॥ उक्त्वेति । स्वयमृषभदेवः । सुतेभ्यो भरतादिभ्यः । परमहंसानां वृत्तिं गतो जडोन्मत्तपिशाचवच्चरणमधा: अकरो: परात्मभूतोऽपि परोपदेशं कुर्वन् भवान् सर्वनिरस्यमानः | विकारहीनो विचचार कृत्स्नां महीमहीनात्मरामिनः ॥ ९ ॥ - परेति । भवान् परात्मभूतो ब्रह्मभूतः, तथापि परेभ्य उपदेशं कुर्वन् ब्रह्मोपदेशं वा । स्वस्य पारमहंस्यवृत्त्यैव परोपदेशो न मुखत इत्याह -- सर्वेति । सर्वनिरस्यमानोऽवधूतः । विकारहीनः शरीराभिमाननिवृत्तेः कर्तृत्वभोक्तृत्वसुखदुःखा दिरहितः । तत्र हेतुः अहीनात्मरसे परमानन्दानुभवे अभिलीनः तदैक्यं प्राप्तो जी- वन्मुक्त इति यावत् ॥ ९ ॥ शयुवतं गोमृगकाकचर्या चिरं चरनाप्य परं स्वरूपम् । दवाहताङ्गः कुटकाचले त्वं तापान ममापाकुरु वातनाथ ! ॥ १० ॥ शय्विति । शथुव्रतमाजगरं व्रत गोगकाकवर्या च चिरं चरन् शयुवद - नुयमः सन् गोमृगका कवच्शुद्धिविधिनिषेधादेर्निवृतः केवलं देहत्वभात्रात् सञ्चरन्नित्यर्थः । परं स्वरूपमाप्य कुटकाचले दवाहताङ्गो दवामिदग्धशरीरः पपातेत्यर्थः ॥ • Il इति ऋषभयोगिचरितवर्णनं विशं दशकम् । .