पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ पञ्चमस्कन्धपरिच्छेदः । लोकानां प्राक् स्वसृष्टानां मर्यादापालनात्मिका । लीला स्थानसमाख्याता रेः प्रस्तूयतेऽधुना ॥ इदानीं पञ्चमस्कन्धाश्रयणेन भगवतो मर्यादापालनात्मिकां लीलामभिदधानः प्रथम मृषभदेवावतार कथनाय तरपूर्वपरम्पर|माह-- " त्रियव्रतस्य मिपुत्रभूतादात्रीधराजादुदितो हि नाभिः । त्वां दृष्ट्वानिवृदमिष्टिमध्ये तवैव तुष्ट्यै कृतयज्ञकर्मा ॥ १ ॥ प्रियव्रतस्येति । स्वायम्भुवस्य मनोर्ज्येष्ठपुत्रः प्रियव्रतः | तस्य वर्हिष्मत्यां दश पुत्रा अभवन् । तेषु ज्येष्ठ आमीश्रो नाम राजा स्वसमानशीलतया पितुः प्रियः । तस्मात् पूर्वचित्तिनामाप्सरसि नाभिर्नाम राजा उदित उत्पन्नः । इष्टिमध्ये यज्ञमध्ये ॥ १ ॥ अभिष्तस्तत्र मुनीश्वरैस्त्वं राज्ञा स्वतुल्यं सुतमर्थ्यमानः । स्वयं जनिष्येऽहमिति नुवाणस्तिरोदधा बर्हिषि विश्वमूर्ते ! ॥ २ ॥ अभित इति । स्वतुल्यमश्विरतुल्यम् | बर्हिषि अनौ तिरोदधाः ॥ २ ॥ नामिप्रियायामथ मेरुदेव्यां त्वम॑शतोऽभूर्ऋषभाभिधानः | अलोकसामान्यगुणप्रभावप्रभाविताशेषजनप्रमोदः ॥ ३ ॥ नाभीति | मेरुदेव्यां मेरुसुतायाम् । अलोकसामान्यैरमानुषैर्गुणैः प्रभावैश्व प्रभावित उत्पादितः अशेषजनप्रमोदो येन || ३ || त्वयि त्रिलोकीभृति राज्यभारं निधाय नाभिः सह मेरुदेव्या । तपोवनं माध्य भवन्निषेवी गतः किलानन्दपदं पदं ते ॥ ४ ॥ त्वयीति | आनन्दपदं निरतिशयसुखस्थानं ते पदं वैकुण्ठम् ॥ ४ ॥ इन्द्रस्त्वदुत्कर्षकृतादमर्षाद् ववर्ष नास्मिन्नजनाभवर्षे | यदा तदा त्वं निजयोगशक्त्या स्वरर्षमेनद् व्यदधाः सुवर्षम् ॥ ५ ॥