पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये (स्कन्धः - ४ प्रचेतसामिति । वरानदा इत्युक्तं तदेवाह भवद्विचिन्तेति । भवतां प्रचेतसां विचिन्तानुस्मरणं शिवाय मङ्गलाय, रुद्रनुतिः रुद्रेण गीता मम स्तुतिश्च ॥ ७ ॥ अवाप्य कान्तां तनयां महीरुहाँ तया रमव्वं दशलक्षवत्सरीम् । सुतोऽस्तु दक्षों ननु तत्क्षणाच मां प्रयास्यथेति न्यगदो सुदैव तान् || ८ || अवाप्येति । किञ्च महीरुहां वृक्षाणां तनयां पुत्रीं, मम्लोचानाम्नोऽप्सर- सः पुत्री तत्परित्यक्ता वृक्षैः पुत्रीत्वेन परिगृहीतेति द्रष्टव्यम् । तां कान्तामदाप्य युप्माभिर्दशभिः सहैवोद्वाय तथा दशलक्षवत्सराणां समाहासे दशलक्षवत्सरी ताव- त्कालं रमध्वं भोगाननुभवत | तस्यां दक्षो नाम सुतश्चास्तु | तत्क्षणाद् दशल- क्षवत्सरानन्तरमेव मां प्रयास्यथ मुक्ता भविष्यथ इति मुदेव तत्प्रार्थनां विना त्वं तान् न्यगद उक्तवान् ॥ ८ ॥ १०२ ततय ते भूतलरोधिनस्तरून् क्रुषा दहन्तो द्रुहिणेन वारिताः । द्रुमैथ दत्तां तनयामवाप्य तां त्वदुक्तकालं सुखिनोऽभिरेमिरे ॥ ९ ॥ ततश्चेति । ततो भगवद्गमनानन्तरं सलिलादुत्थितास्ते भूतलं रोद्धुं शीलं येषामिति भूतलरोधिनस्तान् तरून् क्रुषा क्रोधोद्धृताभ्यामनिलानलाभ्यां दहन्तो दुहिणेन ब्रह्मणा वारिताः । ततश्च भीतैर्ब्रह्मणोपदिष्टैमैर्दत्तां तां कमललो - चनाम् ॥ ९ ॥ अवाप्य दक्षं च सुतं कृताध्वराः प्रचेतसो नारदलब्धया धिया । अवापुरानन्दपदं तथाविधस्त्वमीश ! वातालयनाथ ! पाहि माम् ॥ १० ॥ अवाप्येति । नारदाल्लब्धया धिया ज्ञानेनानन्दरूपं पदं, पद्यते प्राप्यत इति पदं ब्रह्म अवापुः । तथाविधस्तादृशभक्तवात्सल्ययुक्तः ॥ १० ॥४१॥ इति दक्षोत्पत्तिप्रसङ्गवर्णनं दक्षोत्पत्तिवर्णन य एकोनविंशं दशकम् । इति नारायणीयस्तोत्रव्याख्यायां भक्तप्रियाख्यायां चतुर्थस्कन्धपरिच्छेदः । आदितः श्लोकसङ्ख्या १९९