पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Q नारायणीये सत्रस्थं मुनिनव हितानि शंस वैशिष्टाः सनकमुखान् सुनीन् पुरस्तात् ॥ ९ ॥ [स्कन्धः -- ४ तहत्तमिति | तेन विष्णुना दत्तं वरनेकामनपायिनी भक्तिमुपलभ्यानन्तरं गङ्गान्ते गङ्गायमुनयोर्मध्ये विहितं पदं स्थानं यस्य स तथा ) तत्र वसन् कदापि सत्रस्थं सत्रया यातं मुनीनां देवर्षिब्रह्मर्षिराजवीगां निवहं समूहं हितानि प्रवृत्ति- निवृत्तिलक्षणं धर्मद्वयं हंसन् उपदिशन् तदन्ते सनकमुखान् सनकसनन्दसनातन- सनत्कुमारान् ऐक्षिष्ठा दृष्टवान् ॥ ९ ॥ विज्ञानं सनकमुखोदितं दधानः स्वात्मानं स्वयमगमो बनान्तसेवी । तत्तादृक्पृथुवपुरीश ! सत्वरं मे रोगौधं मशमय वातगेहवासिन् ! ।। १० ।। विज्ञानमिति | सतमुखोदिनं विज्ञानं ब्रह्मज्ञानं दधानः सम्यगवधार्य स्वयं जगदनुग्रहायाजीकृत सत्त्वविग्रहः त्वं स्वात्मानं स्वस्वरूपं परब्रह्मागमः अहं ब्रह्मेत्यनुभूतवान् | पश्चाच्च बनान्तसेवी पुत्रे राज्यं न्यस्य वनं गतस्तपश्चरन् स्वयं स्वात्माननगमः प्राप्तवान् | परब्रह्म मात्र भुपतिष्ठसे स्म इति भावः ॥ १० ॥ इति पृथुचरितवर्णनम् अष्टादशं दशकम् । अथ प्राचीन बहिषश्चरितमारभते--- पृथोस्तु नता पृथुधर्मकर्मठ: प्राचीनवितौ शतडतौ । मचेतसो नाम सुचेतसः तुतानजीजनत्त्वकरुणा कुरानिव ॥ १ ॥ पृथोरिति । नता पौत्रस्य पुत्रः | पृथोः पुत्रो विजिताश्वः, तत्पुत्रो हवि- र्थानः, तत्पुत्रो बर्हिम्मदयमुच्यते । स च पृथुर्विस्तृतो धर्मो यस्य, यद्वा पृथोरिव धर्मो यस्य सः पृथुधर्मा कर्मठः कर्मशूरः, कर्मकाण्डे निष्णात इत्यर्थः । अत एव १. 'मवाते' क. पाठ: