पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पृथुचरितवर्णनम् । स्वर्णपात्रे सोमं दुदुहुः । असुराणां प्रह्लादो वत्सः अयः पात्र सुरा पयः, गन्धर्वा मधु | पितरः कम्यम् । एवं द्रष्टव्यम्। सुरभितनूं गोरू पिणीमदुहः, त्वच्छासनाद् दुदुहुरिति तात्पर्यम् ॥ ६ ॥ दशकम् - १८] - आत्मानं यजति मखैस्त्वयि त्रिधाम- नारब्धे शततमवाजिमेधयागे । स्पर्धालुः शतमख एत्य नीचवेषो हृत्वावं तव तनयात् पराजितोऽभूत् ॥ ७ ॥ आत्मानमिति | हे त्रिधामन् ! विष्णो ! त्वयि पृथौ मखैरश्वमेघैरात्मा - नं सर्वदेवमयं विष्णुं यजति सति शततमे शतसंख्याया अन्तिमे वाजिमे- घयागे आरब्धे शतमखः इह जगत्यहमेक एवं शतक्रतुरित्यभिमानीन्द्रः नीचवेषः पाषण्डवेषः सन्नेत्याश्चं हत्वा तव तनयात् पृथुपुत्रादनेनैव कर्मणा विजि- ताश्वसंज्ञात् ॥ ७ ॥ देवेन्द्रं मुहुरिति वाजिनं हरन्तं वहौ तं मुनिवरमण्डले जुहूषौ । रुन्धाने कमलभवे क्रतो: समाप्तौ साक्षात् त्वं मधुरिपुमैक्षथाः स्वयं स्वम् ॥ ८ ॥ देवेन्द्रमिति । अनेन प्रकारेण नम्ररक्तपटजटा भस्मादिपाषण्डवेषेण मुहुः पुनः पुनः वाजिनमश्वं हरन्तं मुष्णन्तं तं देवेन्द्रं मुनिवराणां मण्डले समूहे बहौ दक्षिणामौ जुहूषौ वधार्थमाभिचारविधाने॒न होतुमिच्छति सति कमलभवे ब्रह्मणि रुन्याने 'तबैकोनशतक्रतुत्वेनालं, शतक्रतुश्च प्रीतो भवतु, हे पृथो ! तव ऋतु- मिरलम्' इत्यागत्य प्रतिषेधं कुर्वति सति क्रतोः समाप्तौ जातायां त्वं पृथुः मधुरिपुं विष्णुं साक्षाच्चाक्षुषतया ऐक्षया दृष्टवान् | स्वयं स्वमित्यनेन पृथोरवतारव- तदत्तं वरमुपलभ्य भक्तिमेकां गङ्गान्ते चिहितपद: कदापि देव ! | १. 'रपि वा' ख. पाठः,