पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रेमे चिरं भवदनुग्रहपूर्णकाम- स्वाते गते च वनमाहतराज्यभारः ॥ ९ ॥ पुनरुत्तमचरितमाह - www..ccamm भारायणीये यक्षेण देव ! निहते पुनरुत्तमेऽस्मिन् यक्षैः स युद्धनिरतो विरतो मनुकत्या | शान्त्या प्रसन्नहृदयाद् धनदादुपेतात् त्वद्भक्तिमेव सुदृढामहणोन्महात्मा ॥ १० ॥ अथ ध्रुवस्य स्वादप्राप्तिमाह- अन्ते भवत्पुरुषनीत विमानयातो मात्रा समं ध्रुवपदे मुदितोऽयमास्ते । एवं स्वभृत्यजनपालनलोलधीस्त्वं वातालयाधिप ! निरुन्धि ममामयौघान् ॥ ११ ॥ यक्षेणेति । उत्तमे मृगयायां केनचिद् यक्षेण युद्धे निहतेऽनन्तरं स ध्रुवो भ्रातृवधामषेण यक्षैर्युद्धनिरतस्तान् निहतवान्, मनोः पितामहस्योक्त्या विरतश्चा- भूत् । अथ ध्रुवस्य शान्त्या युद्धानेवृत्त्या ध्रुवसमीपमागताद् धनदादू राजराजाद् वरं वृणीष्वेत्युक्तो ध्रुवस्त्वद्भक्तिमेवावृणोत् । अत्र हेतुर्महात्मेति ॥ १० ॥ १. 'यां याते के' क. पाठ: स्कन्धः Wudaging - अन्त इति । अन्ते षड्विंशद्वर्षसहस्रं राज्यमनुभूय तदन्ते भवत्पुरुषाभ्यां सुनन्दनन्दाभ्यां नीतेन विमानेन यातो गतः सन् मात्रा सुनीत्या सर्व सह मुदि- तः सन्तुष्ट अयमास्ते इत्यनेनाधुनापि तस्य विद्यमानत्वं नक्षत्ररूपेण दृश्यमानत्वं च सूचितम् ॥ ११ ॥ इति ध्रुवचरितवर्णनं सप्तदशं दशकं सैकम् ।