पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् -- १७] ध्रुवचरितवर्णनम् । तावदिति । स्वद्रूपचिद्रसे त्वदाकारे चतुर्भुजत्वादिविशिष्टतया घनीभूय स्थिते चिद्रसे परब्रह्मणि निलीना तदाकाराकारिता मतिर्यस्य तृस्येत्यर्थः । यद्वा ताहश्या मतेस्तस्य पुरस्तादाविर्बभूविथेति । अनेन च त्वद्रूपं हृदि सह- सा तिरोहितमुपलक्ष्योन्मीलितनयनस्तदवस्थं बहिःस्थितं भगवद्रूपमसौ ददर्शति व्यज्यते ॥ ६ ॥ त्वदर्शनममदभारतरङ्गितं तं दृग्भ्यां निमग्नमिव रूपरसायने ते । तुश्रूषमाणमवगम्य कपोलदेशे संस्पृष्टवानसि दरेण तथादरेण ॥ ७ ॥ त्वदिति । त्वद्दर्शनप्रमदभारे तरङ्गितम् इतिकर्तव्यतामूढतया किञ्चि- दिव सम्भ्रान्तं पुनश्च ते रूपरसायने रूपामृते दृग्भ्यां निमग्नमबगाढनयनयुग्म - मिवस्थितं तं तुष्षूषमाणं स्तोतुमिच्छन्तं तदसमर्थ चावगम्य तत्सामर्थ्यसम्पादनाय दरेण शब्दब्रह्मात्मकेन पाश्चजन्याख्येन शङ्खेन कपोलदेशे संस्पृष्टवानसि | आदरेण लालनपूर्वकम् ॥ ७ ॥ तावद् विबोधबिमले प्रणुवन्तमेन- माभाषयास्त्वमवगम्य तदीयभावम् । राज्यं चिरं समनुभूय भजस्व भूयः सर्वोत्तरं ध्रुव ! पदं विनिवृत्तिहीनम् ॥ ८ ॥ तावदिति । दरेण कपोले स्पृष्टमात्र एव विबोधेन ज्ञानविज्ञानाभ्यां तं मलमज्ञानं यस्मात् स विमलः, तम् । यद्वा विमलं यथा भवति तथेति स्तव- । अनेन च स्तुतेर्निर्गुणब्रह्मनिष्ठत्वं व्यज्यते । तदीयं ध्रुवसम्ब- यमवगम्य आभाषथा उक्तवानसि । सर्वोत्तरं सप्तर्षिलोकादप्यु- • परिष्टात् स्थितं पदं स्थानं हे ध्रुव ! विनिवृत्तिहीनं पुनरावृत्तिरहितम् ॥ ८ ॥ ध्रुवे राज्यभारं न्यस्य पिता वनं गतवानित्याह- इत्यूचुषि त्वयि गते नृपनन्दनोऽसा- बानन्दिताखिलजनो नगरीमुपेतः । १. 'वं तु ख, पाठः,