पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आकर्ण्य सोऽपि भवदर्चननिश्चितात्मा मानी निरेत्य नगरात् किल पञ्चवर्षः । सन्दृष्टनारदनिवेदितमन्त्रमार्ग- स्त्वामारराध तपसा मधुकाननान्ते ॥ ४ ॥ आकति । आकर्ण्य मातुर्वचनमिति शेषः । स ध्रुवः भवदर्चने तपश्चरणे निश्चित आत्मा मनो यस्य सः मानी | पञ्चवर्ष इति । पञ्चवया अपि जिगमिषुं दृष्ट्वा विषण्णां स्वमातरं कथञ्चिदनुज्ञाप्यान्याननवलोकयन्नेका- की स्वयं नगरान्निर्जगामेत्यर्थः । स पाथ दृष्टेन नारदेन निवेदित उपदिष्टो मन्त्रमार्गो यस्य सः त्वाम् आरराध प्रसादयामास | मधुकाननान्ते मधुवन मिति प्रसिद्धे देशे ॥ ४ ॥ ताते विषण्णहृदये नगरीं गतेन श्रीनारदेन परिसान्त्वित चित्तवृत्तौ । बालस्त्वदर्पितमनाः क्रमवर्धितेन निन्ये कठोरतपसा किल पञ्च मासान् ॥ ५ ॥ तात इति । ताते पितर्युत्तानपाढे विषण्णहृदये आत्मदोषेण बालकस्य नगरान्निर्गमनमुपश्रुत्य तस्यापायशङ्कया सोत्कण्ठहृदये ध्रुवस्य तपश्चरणेतिकर्त- व्यतोपदेशानन्तरमेवास्य पितृदर्शनाय नगरी गतेन श्रीनारदेन परिसान्त्विता तस्य भाविञेयः प्राप्तिकथनादिना मन्दीकृतशोकावेगो चित्तवृत्तिर्मनो यस्य स तथा तस्मिन् एवंस्थिते सति बालो ध्रुवस्त्वदर्पितमनाः त्वयश्वरे समाहितचित्तः सन् क्रमव चिंतेन फलपर्णजलादिक्रमेण शनैः परिहृतेनाहारेणाभिव्यक्तक्रमोत्कर्षेण कठोरेणो- मेण तपसा पञ्च मासान् निन्ये ॥ ५ ॥ ततश्च जातशत्रैर्देवैरथितः श्रीहरिस्तस्य पुरतः प्रादुर्बभूषेत्याह- तावत् तपोबलनिरुच्छ्रसिते दिगन्ते देवार्थितस्त्वमुदयत्करुणाईचेताः ।. त्वद्रूपचिद्रसनिलीनमतेः पुरस्ता- दांविर्षभूविथ विभो ! गरुडाधिरूढः ॥ ६ ॥ १. 'ण इति' क. पाठः २. 'शा' क. पाठः,