पृष्ठम्:Mudrarakshasa.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७९
प्रथमोऽङ्कः ।


 चरः ‌-----अज्ज अवरो वि [१]अमच्चरक्खसस्स पिअवअस्सो का[२]अत्थो सअडदासो णाम । (क)

 चाणक्य-( विहस्यात्मगतम् ।) कायस्थ इति लघ्वी मात्रा ।तथापि न युक्तं [३]प्राकृतमपि रिपुमवज्ञातुम् । तस्मिन्मया सुहृच्छ​[४]झना सिद्धार्थको विनिक्षिप्तः। (प्रकाशम् । ) भद्र तृतीयं श्रोतुमिच्छ​मि ।

 [५]चरः-तिदीओ वि अमच्चरक्खसस्स दुदीअं हिअअं पुष्पउरणि [६]वासी माणिआरसेट्टी चन्दणदासो णाम । जस्स गेहे कलत्तं [७]ण्णासीकदुअ अमच्चरक्खसो णअरादो अवाक्कन्तो । (ख)


 ( क ) आर्य, अपरोऽपि अमात्यराक्षसस्य प्रियवयस्यः कायस्थः शकट-दासो नाम ।

 ( ख ) तृतीयोऽपि अमात्यराक्षसस्य द्वितीयमिव (?) हृदयं पुष्पपुरनिवासी मणिकारश्रेष्ठी चन्दनदासो नाम । यस्य गेहे कलत्रं न्यासीकृत्य अमात्यराक्षसो नगरादपक्रान्तः ।


अतस्तन्मुखेनास्माकं इष्टसिद्धिर्भविष्यतीति हर्षकारणम् । जीवसिद्धौ निवे-दिते तमजानन्तमिव तूष्णींभूतं चाणक्यं जगति तत्तत्कर्मकथनेन ज्ञाप यति जीवसिद्धिर्नाम स इति ।

 अस्मदिति । अस्माकं प्रणिधिगूढचरः । राक्षसमिीभूतः सन्निमं जना-पवादं निर्वहणे मलयकेतुं प्रत्यापयिष्यतीति भावः ।

 कायस्थो लेखकः।

 लघ्वी मात्रा फल्गुस्तस्मादस्माकं नात्याहितं तथापि नोपेक्षणीयः ।


  1. Om. in E; क्खु for वि in B. E.
  2. काय° P; काअद्धो K.
  3. E.and H.have प्राकृतमपि पुरुषस°;,N. has प्राकृतपुरुषमपि रिपुम°
  4. °झा E;M.R.B.om.वि in विनि; नियुक्तः for विनिक्षिप्तः H.प्रकाशम् Om. in E; °यमपि° for ‘यं E.
  5. B. and N. add here विहस्य; तइओ B; तदि° E.तदी° K; तिदि° R, वि om. in K, दुदि° K. E . N; विअ before भिअ° in B. E. N; वि in E, हिययं E. and probably P; °cषषु° M. K; °प्फपु° R. P; °प्पपु° E.
  6. णि om. in B.and M; नि for णि E; सेठी. P; द्वी° K; °नदासो P; नाम E; नाम P, जस K;यस्त्र E.
  7. ना° E, which has अम–सो before this; णअराओ N; नअरादो E; अप° R. M.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/८०&oldid=320636" इत्यस्माद् प्रतिप्राप्तम्