पृष्ठम्:Mudrarakshasa.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६५
प्रथमोङ्कः।


न पुनरुपाध्यायसहभूः शिष्यजने दुःशीलता। (नाट्येनोपविश्यात्मगतम् ।) कथं प्रकाशतां गतोऽयंमर्थः पौरेषु यथा किल नन्दकुलविनाशजनित[१]रोषो राक्षसः पितृवधामष्रितेन सकलनन्दराज्यपरिपणनप्रोत्साहितेन पर्वतकपुत्रेण मलयकेतुना [२]सह संधाय तदुपगृहीतेन च महता [३]म्लेच्छराजबलेन परिवृतो वृषलमभियोक्तुमुद्यत इति । ( विचिन्त्य ।) अथवा येन मया सर्वलोकप्रकाशनन्दवंशवधं प्रतिज्ञाय निस्तीर्णा दुस्तरा प्रतिज्ञासरित्सोऽहमिदानीं प्रकाशीभवन्तम[४]प्येनमर्थं समर्थः प्रशमयितुम् । कुतः।


योगोऽभिनिवेशः एवं त्वदुपालम्भकत्वेनास्मान्व्याकुलयति । न पुनरुपाध्यायसहभूरूपाध्यायत्वव्याप्येत्यर्थः। शिष्यजने विषये दुःशीलता उपालम्भनशीलता । अल्पेऽप्यपराधे शिष्यजनं प्रति उपालम्भनमुपाध्यायानां सहजो दोप इत्यर्थः । त्वं तु सेवायामत्यन्तं समवहितोऽसि कार्यव्यग्रत्वादहं त्वामुपालब्धवानस्मीत्यर्थः । अत्र कार्याभिनियोग इत्यनेनानिर्वाहणाद्विन्द्वादिरूपेणानेकधा विस्तारिणः कार्यहेतोश्चाणक्योद्योगस्य बीजस्य स्तोकोद्देशः कृत इति बोध्यम् । अथास्य संघेरङ्गान्युच्यन्ते~~ ‘अङ्गानि द्वादशैतस्य बीजारम्भसमन्वयात् ।’ बीजारम्भानुगुण्येन मुखसंधेरङ्गानि प्रयोक्तव्यानि

‘उपक्षेपः परिकरः परिन्यासो विलोभनम् ।
युक्तिः प्राप्तिः समाधानं विधानं परिभावना ।
उद्भेदभेदकरणान्यन्वर्थानि यथाक्रमम् ।' इति ।

 कथमित्यादि । अयमाशयः--पुरं सार्वं नन्दुमौलबलाक्रान्तं प्रकृतयश्च सर्वा नन्दकुलामात्ये राक्षसेऽनुरक्ताः । अतस्तदुद्यममुपश्रुत्य महान्तमन्तः-


  1. रेषामप R. °नन्दकुलराज्य° P. परिपणप्रो° P. E
  2. सह संधाय om in M. and R.
  3. म्लेच्छराजेन B; स्मेच्छबलेन M. R; R. and E. om. च before महता.
  4. °च्येत’ K.; न समर्थः किम्. all. MSS. except. A. M. and K. the Nagpur. MSS. and R; P. has किमसमर्थः B. has असमर्थः किम् K omits प्र. B. and E. add इति. B. E. Nagpur MSS. and H. add एतत् तः
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/६६&oldid=316069" इत्यस्माद् प्रतिप्राप्तम्