यस्य मम |
सिंहेनेव[५] गजेन्द्रमद्रिशिखरात्सिंहासनात्पातितम् ॥ १२ ॥
कोपमुत्पादयेयुस्ततश्च महत्संकटमापतितं कथं कर्त्तव्यमिति चिन्ता। अथ वेति चिन्तापरिहारः। समागतमप्येनं दण्डेन निग्रहीतुं समर्थ इत्यर्थः । सामर्थ्यमेवोद्भावयति द्वाभ्याम्--श्यामीकृत्येति । अरियुवतय एव दिश इत्यादिरूपकम् । मन्त्रिद्रुमेभ्य इति । ‘क्रियया यमभिप्रैति स संप्रदानम्'इति मोहभस्मविक्षेपक्रिययाभिप्रेतानां मन्त्रिद्रुमाणां संप्रदानत्वं ‘पत्ये शेते’ इतिवत् । राक्षसवक्रनासादीन्मत्रिणः स्वमन्त्रशक्त्या मोहयित्वा प्रतिविधातुमसमर्थान् कृत्वेत्यर्थः । पौरद्विजेति । वेणुवनदाहे द्विजगणाः पक्षिगणा उड्डीय पलायन्त इति भावः । मन्त्रिण: पॉरांश्च हित्वा यत्प्रति ज्ञातं नन्दुसंहरणं तदेव मया कृतमिति स्वस्योचितकारित्वं सूचितम् । न खेदान्न निर्वेदात् । संप्रति दाह्यो वध्यो मलयकेतुः प्राप्तस्तस्मिन् क्रोधवह्निर्ज्वलिष्यतीति भावः ॥ ११ ॥
शोचन्त इति । अवशं तदानीं प्रतिकर्तुमसमर्थं तथैव यथाग्रासनतोऽहमवकृष्टस्तथैवेत्यर्थः। ते पश्यन्तीति । ईदृशो मदीयः क्रोधः सर्वलोकप्रत्यक्ष इति भावः ॥ १२ ॥
शनं उद्योगम् । अयं बीजन्यास उपक्षेपः अङ्गम् । ‘काव्यार्थस्य समुत्पन्तिरुपक्षेप इति स्मृतः । राक्षससंग्रहरूपकार्यबीजस्य स्वोद्योगस्य बीज-