पृष्ठम्:Mudrarakshasa.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६४
मुद्राराक्षसे


[१]पि च ।
 [२]ल्लङ्धयन्मम समुज्ज्वलतः प्रतापं
  कोपस्य नुन्दकुलकाननधूमकेतोः ।
 सद्यः परात्मप[३]रिमाणविवेचकमूढः
  कः शालभेन विधिना लभतां विनाशम् ॥ १० ॥
शाङ्रगरव शा[४]ङ्गरव ।

( प्रविश्य )

शिष्यः—उपाघ्याय, आज्ञापय ।

चाणक्यः-वत्स, उपवेष्टुमिच्छामि ।

शिष्यः--[५]उपाध्याय, नन्वियं संनिहितवेत्रासनैव द्वारप्रकोष्ठशाला । त[६]दस्यामुपवेष्टुमहेत्युपाध्यायः ।

चाणक्यः-वत्स, का[७]र्याभिनियोग एवास्सान्व्याकुलयति


रूपणम् । वेध्यो मलयकेतुरित्यर्थः । मलयकेतुनिग्रहं विना शिखां न , बघ्रामीति पद्यस्य निष्कृष्टोऽर्थः ॥९॥

इममेव संरम्भं वीररसेनोपोद्वलयति-उल्ल्ड्डयन्नित्ति । सम मदीयस्य समुज्वलतः प्रदीप्तस्य नन्दकुलवनंदाहकवह्निरूपस्य कोपस्य प्रतापमुग्रत्त्वं ज्वालां चोल्लङ्घयन् । अतिक्रमिष्यन्नित्यर्थः। कः मलयकेतुःपरात्मनःपरिमाणं तारतम्यं तद्विवेकशून्यः शालभेन विधिना दहनज्वालापतयालुशलभरीत्या विनाशं लभताम् । अत्र पद्यद्वयेऽनुभयताद्रूप्यरूपकालंकारः।‘विषय्यभेदतद्रूद्यं रञ्जनं विषयस्य यत् । रूपकं तु त्रिधाधिक्यन्यूनत्वानुभयोक्तिभिः ।' इति लक्षणात् ॥ १० ॥

कार्यसंरम्भवैयद्रयेण द्विरुक्तिः---शार्ङ्गरवेति ॥

वत्सेति । इदमुपालम्भगर्भवचनम् । अधुनाप्यासनं त्वया न सज्जी कृतमेत्याशयः ॥

वत्स, कार्याभिनियोग इति । कार्य राक्षससंग्रहं प्रति अभिनि-


  1. किं च A. K. R. M. and Nagpur MSS.
  2. उलासयन् R.
  3. परिणाम B. K. R, and Nagpur MSS.
  4. Om in M. K. P. B. and Nagpur MSS.
  5. Om in P; After इयं K. P. and R, add सदा.
  6. K. has simply तस्यामु°.
  7. °र्याभियोग. M. R. K.; for एवास्मान् K.P.R. M. read एवमस्मान्;B. E. N. P. read °नाकुल °for° न्व्याकुल° For शिष्यजने further on M. R. have °जन.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/६५&oldid=316068" इत्यस्माद् प्रतिप्राप्तम्