पृष्ठम्:Mudrarakshasa.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८
मुद्राराक्षसे


 सूत्रधारः-आ[१]र्ये, तिष्ठतु तावदाज्ञानियोगः। कथय किमद्य भवत्या तं[२]त्रभवतां ब्राह्मणानामुपनिमन्त्रणेन कुटुम्बकमनुगृहीतमभिमता वा भवनमतिथयः सं[३]प्राप्ता यत एष पाकविशेषारम्भः ।

नटी-अ[४]ज्ज आमन्तिदा मए भअवन्तो ब्रह्मणा । ( क )

सूत्रधारः-क[५]थय कस्मिन्निमित्ते

नटी उ[६]वरज्जदि किल भअवं चन्दो त्ति।( ख )

सूत्रधारः--, आ[७]र्ये क एवमाह ।

नटी-ए[८]वं खु णअरवासी जणो मन्तेदि । ( ग )


 ( क ' ) आर्य, आमन्त्रिता मया भगवन्तो ब्राह्मणाः ।

 ( ख ) उपरज्यते किल भगवान् चन्द्र इति ।

 ( ग ) एवं खलु नगरवासी जनो मन्त्रयते ।


 आर्ये तिष्ठत्विति । इयं साकाङ्कस्य वाक्यस्य निवर्तनरूपा वाक्केलिः। कथयेत्यादि । इदमन्यार्थं पाकक्रियासाफल्यार्थे कुटुम्बकमनुगृहीतमिति प्रलोभनकरं वचनं व्याहारः ॥

 कस्मिन्निति । केन निमित्तेनेत्यर्थः । सर्वासां प्रायदर्शनस्योक्तत्वात् ॥

 उवरजदीति । इदं प्रियसदृशैर्वाक्यैर्विलोभनं छलम् । वक्ष्यति च विप्रलब्धासीति॥

 एवमिति । अयं असंबद्धकथाप्रायः प्रलापः असम्प्रलापः ।


  1. Om. R. and ME; कथयतु for कथय A. भवत्या Om. M
  2. For तत्रभवतां, भगवत B. E. M. R. N. and H. ब्राह्मणानाममन्त्रणेन M. R. after which B. adds एतत्, B. and E. year अथवा अभिमता भ° and B. adds another वा before भ९P. adds भवत्या after च in text
  3. सं omin B. E. M. R; For यत एष K. reads यत एवैष. . B. and BM. read यदेषः
  4. अजउत्त. E.उर्वणिमन्तिदा for आमन्तिदा P,
  5. A. M. K. begin this speech with आयें; and P. has अथ for कथयः E. omits कथयः
  6. A has उपरजतिः M. उपरज्जइ . P. and H. begin with this speech अज्ञ.
  7. B. M. R. om. आणै.
  8. एवं K; B, reads क्खु; K. has णअरणिवासिष्ठ R. reads आमन्तेदि.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/५९&oldid=315939" इत्यस्माद् प्रतिप्राप्तम्