सूत्रधारः-आर्ये, कृतथ[१]मोऽसि चतुःषष्ट्यब्रे ज्योतिश्शास्त्रे । तत्प्रवर्तां भ[२]गवतो ब्राह्मणानुद्दिश्य पाकः । चन्द्रोपरागं प्रति तु केनापि विप्रलब्धासि । प[३]श्य ।
अन्न वृथा पाकारम्भरूपदोषस्य तत्प्रवर्यतामिति गुणवत्प्रतिपादनं ध्रुव नमङ्गम् ॥
क्रूरग्रह इति । नेपथ्ये स्थितस्य चाणक्यस्येदं सहसोदितं प्रस्तुतस्य चन्द्रग्रहस्य विरोधि गण्डम्। कूरग्रहः स प्रसिद्धः केतुः राहुरित्यर्थः। उभयोरेकशरीरत्वेनाभेदव्यपदेशः। चन्द्रमसमिन्दुमिदानीमद्य पौर्णमास्यां पूऍमण्डलमभिभवितुं ग्रसितुं बलादिच्छति परंतु बुधस्य ग्रहस्य योगः संबन्ध एनं चन्द्रमसं रक्षतीति । तथा च ज्योतिःशास्त्रे व्याससंहितायां गर्गवचबन्---
‘ग्रहपञ्चकसंयोगं दृष्ट्ठा न ग्रहणं वदेत् । |
चाणक्यावगतार्थस्तु क्रूरो घोरः ग्रहः चन्द्रगुप्ताभिभवं प्रति आग्रहो यस्य स क्रूरग्रहो राक्षसः केतुना मलयकेतुना सहितः सकेतुः भीमो भीमसेन इतिवत् । चन्द्रं असंपूर्णमण्डलमिति छेदः।चन्द्र चन्द्रगुप्तमिदानीमसंपूर्णमण्डलमवशीकृतसर्वराष्ट्रमद्याष्यरूढमूलमिति यावत्। बलान्महता म्लेच्छबलेनाभिभवितुं पराभवितुमिच्छतीति। एनं तु बुधस्य नयज्ञस्य चाणक्यस्य योग उपायो रक्षतीति प्रस्तावनार्थः। प्रस्तावना वा तत्र स्यात्कथोद्धातप्रवर्तिका, इति लक्षणात् इयं प्रस्तावना । अत्र वाशब्दस्य समुच्चयार्थत्वात् आमुखप्रस्तावनयोः समुचयः कृत इति बोध्यम् । अत्र मुद्रानामालंकारः । ‘सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरैः पदैः’ इति लक्षणात् ॥ ६ ॥