पृष्ठम्:Mudrarakshasa.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७
प्रथमोऽङ्कः ।


गुणवत्युपायनिल[१]ये स्थितिहेतोः[२] साधिके त्रिवर्गस्य ।
मद्भवननीतिविद्ये का[३]र्याचार्ये द्रुतमुपेहि ॥ ५ ॥

( प्रविश्य )

नटी-अ[४]ज्ज, इअह्मि । अण्णाणिओएण मं अज्जो अणुगेह्णदु (क)


( क ) आर्य, इयमस्मि । आज्ञानियोगेन मामार्योऽनुगृह्णातु । नटी-अज्ज, इअह्मि । अण्णाणिओएण मं अज्जो अणुगेह्णदु (क)


 गुणवत्युपायेत्यार्या अल्पसमासा ऋजुपदो भारती वृत्तिः । अत्र भार्याविषये सौशील्यगृहकृत्यदक्षत्वादयो गुणा उपायाश्च । नीतिविषये गुणाः संधिविग्रहादयः षट् सामादय उपायाश्चत्वारः। विहितकार्योपदेष्टृत्वात्कार्याचार्यत्वमुभयत्र समम् । गार्हस्थ्यस्थितिहेतुत्रिवर्गसाधकत्वं पत्न्याः श्रुतिस्मृतिषु प्रसिद्धम् । नीतिविषये 'क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम्’ इति उक्तलक्षणत्रिवर्गो राज्यस्थितिहेतुः । अत्र ‘ऋतुं कंचिदुपादय भारतीं वृत्तिमाश्रयेत्’ इति वचनात्तृतीयाङ्के वर्णयिष्यमाणशरदृतूपादनं कृतमिति बोद्धव्यम् । तथाहि—अम्भःप्रसादादिगुणवति विजिगीषूणां सामाद्युपायनिलये तेषामेव दिग्विजयावसरप्रदायित्वेनार्थसाधिके तन्निबन्धनत्वाद्धर्मकामयोस्तत्साधिके च । एवं लोकस्थितिहेतुत्रिवर्गस्य साधिके जैत्रयात्रादिकार्याणामाचार्योऽनुकूलत्वेन प्रवर्त्तिके भोः शरद्रुतमुपेहीति विजिगीषुणा चन्द्रगुप्तेन शरदागमः प्रार्थ्यत् तन्मत्रिण चाणक्येन राक्षसातिसंधानार्थ स्वकुलविद्यनीतिरभिमुखीक्रियत इति च ध्वनितम् । उपायनिलये इत्यत्र निलीयतेऽत्रेति योगेन निलयशब्दो विशेष्यनिघ्नः। शरदृतोर्विजययात्रानुकूलत्वम् ‘सरितः कुर्वती गाधाः पथश्चाश्यानकर्दमान् । यात्रायै नोदयामास तं शक्तेः प्रथमं शरत् ॥’ इत्यादि सर्वैर्महाकविभिः बहुशः प्रपञ्चीतम्। अत्र श्लेषोऽलंकारः——‘नानार्थसंश्रयः श्लेषो वर्ण्यावर्ण्योभयास्पदः’ इति तल्लक्षणात् । अत्रासद्भूतं भार्यास्तोत्रं प्रपञ्चः। साम्यादनेकार्थप्रयोजनं त्रिगतं चामुखाङ्गं त्रिष्वनुगतत्वादन्वर्थम् ॥ ५ ॥


  1. °य for °ये. B.; B. E. om. the visarga. °ध° for °धि° M.
  2. स्थितिहेतो H.
  3. कार्यादार्ये for कार्याचार्ये B. E. N. P; उपैहि B. E. K. P. M.
  4. अज्जउत्त B. E. and.N.; ई for इ P. and N.; इअंह्मि H.; E. and H. read आणा°; K. has अणुग्गेह्णदु; P. अणुगेह्णादु; E. reads अज्जउत्त अणुगिह्णेदु; R. has अणुगंणादु अज्जो; B. अणुगेह्णदु अज्जो; M. अणुगेहादु अज्जो and N. अज्जो अणुगिह्णेदु. H. has अणुगेण्हदु.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/५८&oldid=315935" इत्यस्माद् प्रतिप्राप्तम्