पृष्ठम्:Mudrarakshasa.pdf/५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५४
मुद्राराक्षसे


( नान्द्यन्ते )

सूत्रधारः—अलमतिप्रसङ्गेन। आज्ञापितोऽस्मि परिषदा यथाद्य त्वया सामन्तवटेश्वरदत्तपौत्रस्य महाराजभास्करदत्तसूनोः कवेर्विशाखदत्तस्य कृतिरभिनवं मुद्राराक्षसं नाम नाटकं नाटयितव्यमिति। यत्सत्यं काव्यविशेषवेदिन्यां परिषदि प्रयुञ्जानस्य ममापि सुमहान्परितोषः प्रादुर्भवति । कुतः।

चीयते बालिशस्यापि सत्क्षेत्रपतिता कृषिः।
न शालेः स्तम्बकरिता वप्तुर्गुणमपेक्षते ॥ ३॥


 नान्द्यनन्तरप्रविष्टेन सूत्रधारेण रङ्गप्रसादनपुरःसरं मृदुमधुरपदैः पद्यैः भारतीवृत्त्याश्रयणेन काव्यार्थः सूचनीयः । तदुक्तम्--

‘रङ्गं प्रसाद्य मधुरैः श्र्लोकैः काव्यार्थसूचकैः ।
ऋतुं कंचिदुपादाय भारतीं वृत्तिमाश्रयेत् ।' इति ।

तदेतदाह--अलमिति । परिषदा संदिष्टार्थस्य क्षिप्रं कर्तव्यत्वाद्वाचामतिप्रसङ्गो वारणीय इत्यर्थः । 'अलं भूषणपर्याप्तिशक्तिवारणवाचकम्' इत्यमरः । यत्सत्यमिति संघातो ध्रुवमित्यर्थे। अत्र भारतीवृत्तेरङ्गं परिषदभिमुखीकरणफला कविकाव्यनटादीनां प्रशंसारूपा प्ररोचना कृता । तथाहि--सामन्तवटेश्वरेति महाकुलप्रसूतत्वकथनेन कविप्रशंसा । काव्यविशेषवेदिन्यमिति काव्यपरिषदोः प्रशंसा ॥

 बालिशस्येति । स्वस्य बालिशकृषीवलदृष्टान्ताद्विनयप्रदर्शनेनात्मश्र्ला-


1 R, has अलमलमति &c; for प्रसङ्गेन P. and H. have विस्तरेण; (also the Bengal commentary edition). २ Om. in B.E; for वटेश्वर M. has वत्सेश्वर; स्य in पौत्रस्य om.in P. For भास्करदत्त, the reading of H., all MSS. except P & K read पदभाक्पृथु,, P. and Bengal commentary edition, only पृथु, and K. पदभाक्पृथकू. ३ For दत्तस्य E. B. and the Nagpur MSS, read देवस्थ; R, reads कवेः after, not before विशाख दत्तस्य; for अभिनवं P. has अपूर्वे; B. E. and the Nagpur MSS Omit it. ४ After ममापि A.,B.,E. and N. add चेतसि; the Bengal commentary edition omits it. A. omits सु in सुमहान् ५ For प्रादुर्भवति P. has प्रादुर्भ चिप्यति; B.om. कुतः. ६ For सत् K. A. M. R. have सु. ७ For शालेः M. reads शालि and all MSS. except B. R. P. read शाले. For' अपेक्षते E. reads अवेक्षते.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/५५&oldid=315925" इत्यस्माद् प्रतिप्राप्तम्