नाटकादिरूपकाणामादौ विहितं पद्यं नान्दीत्युच्यते । कैश्चिन्नान्द्यां
पदनियमो नाभ्युपमन्यते । अतोऽत्र नाटके पदनियमो नादृतः ।
यद्वा---पदशब्दः पादवचनः । तथा च पद्यद्वयेनाष्टपदा नान्दी कृतेति
ज्ञेयम् । अत्र नाटके वीरो रसः। अतिगहनकौटिल्यनीतिरूपोऽद्भुतरसः
प्रधानमङ्गम् । अन्ये शृङ्गारकरुणादयो यथायथं द्रष्टव्याः । धीरोदात्तो
नायकः। प्रख्यातमितिवृत्तम् । ‘इतिहासनिबन्धनं प्रख्यातम्’ इति
लक्षणात् । चाणक्यकृतस्य नन्दवंशोद्धरणस्य चन्द्रगुप्ताभिषेकस्य च
विष्णुपुराण-बृहत्कथा–कामन्दकादिषु संक्षेपेणोक्तत्वात् ।
विष्णुपुराणे-- ‘नव चैतान्नन्दान्कौटिल्यो ब्राह्मणः समुद्धरिष्यति । कौटिल्य एव चन्द्रगुप्तं राज्येऽभिषेक्ष्यति । अतःपरं शूद्राः पृथिवीं भोक्ष्यन्ति ॥' इति ।
बृहत्कथायाम्--
‘चाणक्यनाम्ना तेनाथ शकटारगृहे रहः।
कृत्यां विधाय सप्ताहात्सपुत्रो निहतो नृपः ॥
शकटारः क्षपणकलिङ्गधारी चाणक्यमित्रं इन्दुशर्मा ।
‘योगानन्दे यशःशेषे पूर्वनन्दसुतस्ततः।
चन्द्रगुप्तः कृतो राज्ये चाणक्येन महौजसा ॥
कामान्दके--
वंशे विशालवंशानामृषीणामिव भूयसाम् ।
अप्रतिग्राहकाणां यो बभूव भुवि विश्रुतः ।
जातवेदा इवार्चिष्मान्वेदान्वेदविदां वरः।
योऽधीतवान्सुचतुरश्चतुरोऽप्येकवेदवत् ।
यस्याभिचारवज्रेण वज्रज्वलनतेजसः ।
पपात मूलतः श्रीमान्सुपर्वा नन्दपर्वतः ॥
एकाकी मन्त्रशक्त्या यः शक्तः शक्तिधरोपमः ।
आजहार नृचन्द्राय चन्द्रगुप्ताय मेदिनीम् ॥
नीतिशास्त्रामृतं धीमानर्थशास्त्रमहोदधेः ।
य उद्दध्रे नमस्तस्मै विष्णुगुप्ताय वेधसे' ॥ इति ॥