पृष्ठम्:Mudrarakshasa.pdf/५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५५
प्रथमोङ्कः ।


तद्यावदिदानीं गृहं गत्वा गृहजनेन सह संगीतकमनुतिष्ठामि


घापराङ्मुखत्वरूपमहागुणकथनान्नटस्तुतिः । बालिशस्य बीजावापानभिज्ञस्यापि सुक्षेत्रपतिता कृषिः कर्षणम् । कृषिर्लक्षणया तत्संबन्धि बीजमित्यर्थः । चीयते उपचिता अभिवृद्धा भवति । शालेः एकस्य शाल्यङ्कुरस्य स्तम्बकरिता सुक्षेत्रगुणकृतनिबिडीभवनशीलता वप्तुः बीजावापकर्तु: गुणं दक्षत्वादिकं नापेक्षते । किंतु स्वयमेव भूसारगुणेनोपचिता भवतीत्यर्थः। अत्र सुक्षेत्रदृष्टान्तोऽपि परिषत्प्रशंसैव। स्तम्बं स्तोमं करोतीति स्तम्बकरिः । ‘स्तम्बशकृतोरिन् । व्रीहिवत्सयोरिति वक्तव्यम्’ इत्यनुशासनात्स्तम्बशब्दे उपपदे कृञ इन्प्रत्ययः ॥ ३ ॥ अनुतिष्टामीति । अनुष्ठास्यामीत्यर्थः । 'यावत्पुरानिपातयोः' इति लट् । इदमामुखम् । तदुक्तम्-

‘सूत्रधारो नटीं ब्रूते मारिषं वा विदूषकम्।
स्वकार्यप्रस्तुताक्षेपिचित्रोक्त्या यत्तदासुखम् ॥
प्रस्तावना वा तत्र स्यात्कथोद्धातः प्रवृत्तकम् ।
प्रयोगातिशयश्चेति त्रीण्यङ्गान्यामुखस्य हि ॥' इति ।
एषामङ्गानां स्वरूपं निरूपितं दशरूपके-
‘स्वेतिवृत्तसमं वाक्यमर्थं वा यन्न सूत्रिणः ।
गृहीत्वा प्रविशेत्पात्रं कथोद्धातो द्विधैव सः ॥
प्रस्तूयमानपात्रस्य गुणवर्णनया स्वतः ।
प्रविशेत्सूचितं पात्रं यत्र तत्स्यात्प्रवृत्तकम् ॥
एषोऽयमित्युपक्षेपात्सूत्रधारप्रयोगतः ।
पात्रप्रवेशो यत्रायं प्रयोगातिशयो मतः ॥'इति ।
‘वीथ्यङ्गान्यानमुखाङ्गत्वादुच्यन्तेऽत्र स्वभावतः ।
उद्धात्यकावलगिते प्रपञ्चत्रिगते छलम् ॥
वाक्केल्यधिबले गण्डमवस्यन्दितनालिके ।
असत्प्रलापव्याहारमृदवानि त्रयोदश ॥' इति ।


 १ गत्वा गृहिणीमाहूय in all MSS except M. P. R, २ N. reads संगीतमनु°. For ॰मि, A. K. M. R, have °मीति. From इमे to प्रविश्यावलोक्य च om.in M.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/५६&oldid=328798" इत्यस्माद् प्रतिप्राप्तम्