यिना विशिखवह्निना त्रिपुरं दुग्धम् , एवं क्रोधाग्निना नन्दवंशवत्सराक्षसं मलयकेतुं दुग्धं समर्थस्यापिं चाणक्यस्य राक्षससंजिघृक्षानुरोधात्कृच्छ्रेण कुटिलनीतिप्रयोगाभिनिवेश इति ध्वनितम् । अत्र अवन्यादीनामवनत्याद्ययोगेऽपि योगकल्पनात्संबन्धातिशयोक्तिरलंकारः ‘संबन्धातिशयोक्तिः स्यादयोगे योगकल्पनम्’ इति तल्लक्षणात् । त्रिपुरविजयिन इति साभिप्रायविशेषणात्परिकरालंकारश्च । ताभ्यां कौटिल्यनीतिरूपवस्तुध्वनिः ॥ २ ॥ अनयैव रीत्या गणपतिस्तुतिपरमस्मदीयं पद्यम्---
‘शेषाहेः फणभङ्गभीरुरवनौ मन्दं निधत्ते पदं
चीत्कारं जगदण्डसंपुटभिदाभीत्या विधत्ते मनाक् ।
नोड्डीयेत जगज्जवादिति शनैः कर्णाञ्चलं दोलय-
त्येवं योऽखिललोकरक्षणचणः पायाद्गणेशः स वः ॥'
अत्र पूर्वनान्दीपद्ये--
‘नान्दीपद्येऽभिधातव्यं चन्द्रनामेति शासनात् ।
इन्दुरित्यमृतं बीजमायुःप्रदमुदीरितम् ॥
सनामा सूचितस्तेन चन्द्रगुप्तोऽपि नायकः ॥
लक्ष्मीकृन्मगणश्चोक्तस्तल्लक्ष्मीस्थैर्यसूचक: ॥
नान्दीपद्येषु कुर्वीत मनाक्काव्यार्थसूचनम् ।
इति शस्त्रात्कविः किंचिद्वस्त्वेवं समसूसुचत् ॥
शृङ्गारो वाथवा वीरो मुख्यः स्यान्नाटके रसः ।
करुणाद्भुतहासाद्यास्तयोरङ्गतया मताः ॥
वीरो रसः प्रधानं स्यान्मुद्राराक्षसनाटके ।
अत्यद्भुतकरी शाठ्यनीतिरत्राङ्गमिष्यते ॥
नीतिर्द्विधेरिता धर्मशाठ्यप्राधान्यभेदतः ।
धर्मशाठ्ये संदधतो द्विविधा सा यथायथम् ॥
आद्या युधिष्ठिरादिभ्यो विदुरादिभिरीरिता ।
अन्योक्ता धृतराष्ट्राय दुर्दान्तैः कणिकादिभिः ॥
अत्यद्भुतविधादत्र संविधानान्महाकविः।
प्रपञ्चयति चाणक्यमुखेन कुटिलं नयम् ॥
दण्डनीतिर्विनयनाल्लोकस्थितिविधायिनी ।
ऐशी तनुर्द्विघा सा स्याच्छिवा घोरा विभेदतः ॥