पृष्ठम्:Mudrarakshasa.pdf/५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४९
प्रथमोऽङ्कः ।

अपि च ।

पादस्याविर्भवन्तीमवनतिमवने रक्षतः स्वैरपातैः
संकोचेनैव दोष्णां मुहुरभिनयतः सर्वलोकातिगानाम् ।
दृष्टिं लक्ष्येषु नो[१]ग्रज्वलनकणमुचं बध्नतो दाहभीते-
रित्याधारानुरोधात्त्रिपुरविजयिनः पातु वो[२] दुःखनृत्तम् ॥ २ ॥


 द्वितीयं नान्दीपद्यम्--पादस्येति । पादस्य स्वैरपातैः स्वच्छन्दस्फालनैराविर्भवन्तीं आविर्भविष्यन्तीम् । ‘वर्त्तमानसामीप्येवर्त्तमानवद्वा' इति लट् । अवनेः पृथिव्याः अवनतिं न्यग्भावम् । भङ्गमिति यावत् । रक्षतः परिहरतः । अवनिभङ्गभीत्या शनैः पादौ निक्षिपत इत्यर्थः । चोरं रक्षतीत्यत्र चोरस्य स्वच्छन्दचारनिषेधवदत्रावनेरवनत्याविर्भावनिषेधो रक्षतेरर्थः । संकोचेनेति-–सर्वांल्लोकानूर्ध्वं तिरश्चातिक्रम्य गन्तुं समर्थानाम् । अतिविस्तारभाजां दोष्णां भुजानां संकोचेनैव भुजाघातेन लोकाः संहृता मा भूवन्निति भुजानां क्रोडीकरणेनैव मुहुरभिनयतः अङ्गविक्षेपं कुर्वतः । ‘अङ्गहारोऽङ्गविक्षेपो व्यञ्जकाभिनयौ समौ' इत्यमरः । दृष्टिमिति--उग्रज्लनकणमुचं तीव्रविस्फुलिङ्गकिरं दृष्टिं भाललोचनं लक्ष्येषु दृगभिनयदर्शनीयेषु वस्तुषु दाहभीतेर्दग्धानि मा भूवन्निति न बध्नतः न निक्षिपतः । इतीति--इत्याधारानुरोधादित्येवमुक्तस्याधारस्य नृत्तक्रियाश्रयस्य पृथिव्यादेरनुरोधाद्यथाक्रमं भङ्गसंहरणदाहा मा भूवन्निति अनुक्रोशात्त्रिपुरविजयिनः शिवस्य दुःखनृत्तं दुःखेन कृच्छ्रेण यथाकथंचित्सायंतनावश्यकविधितयाङ्गवैकल्येनाप्यनुष्ठीयमानं नृत्तं वः पातु इति पद्यस्य वाच्योऽर्थः । नन्वत्र तृतीयलोचनाभिनयासंभवानृत्तवैकल्यप्रसञ्जनमयुक्तं तत्पिधायापि द्वाभ्यामेव लोचनाभ्यां लक्ष्याभिनयस्य सुकरत्वादिति चेन्मैवम् । द्विलोचनस्यैकस्मिंल्लोचने विकलेऽन्येनाभिनयवैकल्यवत्त्रिलोचनस्यापि तथात्वोपपत्तेः । तस्मादुक्तं दृगभिनयवैकल्यप्रयुक्तदुःखनृत्तत्वप्रसञ्जनं समञ्जसमिति संतोष्टव्यम् । अत्र त्रिपुरविजयिन इति पदेन यथा पुरविज


  1. For नोग्र we have नोग्रां in B. and H.; and for बध्नतो P. R. and H.
    read बिभ्रतो. TheCalcutta edition with Dhundhiraja's commentary
    has बिभ्रता.
  2. For वो M. has नो; for नृत्यम् we have नृत्तम् in B. and N.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/५०&oldid=181794" इत्यस्माद् प्रतिप्राप्तम्