।
शिवा धर्मानुविद्धा स्याद्धोरा कौटिल्यगर्भिता ।
साध्वाचारः साधुनेति न्यायाद्योज्या द्वयोर्दूयोः ॥
उमा सत्वप्रधानत्वादृजुनीतितयेष्यते ।
गङ्गा कुटिलगामित्वात्कुटिला नीतिरिष्यते ॥
तां धर्मनीतेर्निह्नुत्य प्रपञ्चयितुमुत्सुकः ।
चाणक्योऽद्भुतधीरत्र विभुशब्देन सूचितः ॥
आधारवशतो दुःखनृत्तमित्युत्तरेण च ।
पद्येन ध्वनितं कृच्छ्राच्छाठ्यनीतिप्रकल्पनम् ॥
आधारो राक्षसो मौर्यराज्यनिर्वाहकत्वतः ।
तत्संजिघृक्षयाधत्त कौटिल्यः कुटिलं नयम् ॥
कलौ पापिनि कौटिल्यनीतिः सद्यःफलप्रदा ।
इत्यभिप्रेत्य कौटिल्यस्तामेवात्र प्रयुक्तवान् ॥
इत्याधारानुरोधादित्युक्त्या राक्षसरक्षणम् ।
यत्नाद्विधेयं ध्वनितं क्रुद्धान्मलयकेतुतः ॥
भागुरायणवाक्येन तदेतत्स्फुटयिष्यते ।
रक्षणीया राक्षसस्य प्राणा इत्यादिना पुरः ॥
सचिवायत्तसिद्धित्वात्पौरुषं स्वमदर्शयन् ।
गभीरात्मा चन्द्रगुप्तो धीरोदात्तोऽत्र नायकः ॥
तद्राज्याङ्गधुरं वोढुं धृतिमान्राक्षसोऽर्हति ।
तत्संग्रहोऽत एवात्र साध्यो नीतिस्तु साधनम् ॥'
एवमत्रार्थत इन्दुः शाठ्यमिति शब्दतश्च मनाक्काव्यार्थो ध्वनितः ।
‘उदीरितरूयम्बकार्यैर्नान्दीपद्यध्वनिः शुभः ।
स एष ढुण्ढिनाकारि कारिकाडिण्डिमैः स्फुटः ॥'
अथ नाटकादिलक्षणानि निरूप्यन्ते –
‘रूप्यतेऽभिनयैर्यत्र वस्तु तद्रूपकं विदुः।
नाटकाद्यैर्दशविधं तदित्यन्यत्र विस्तरः ॥'
तदुक्तं दशरूपकें---
‘नाटकं सप्रकरणं भाण: प्रहसनं डिमः ।
व्यायोगसमवाकारौ वीथ्यङ्केहामृगा इति ॥'
पृष्ठम्:Mudrarakshasa.pdf/५२
पुटमेतत् सुपुष्टितम्
५१
प्रथ्मोऽकः