यस्मिन्राज्यमिदं प्रशासति निराबाधं जगन्मोदते ,
स श्रीमाञ्छरभः क्षितीन्दुरवनीं शासज्चिरं जीवतु ॥ १४ ॥
एतं ज्येष्ठपुरस्क्रियोपचरितं मन्त्रिप्रवीरं दया-
नावा प्रार्णमहार्णवादुद्धरद्दाक्षिण्यशाली नृपः।
वृत्तिं चातनुतास्य सह्यगिरिजाकूलेऽनुकूले श्रुति-
स्मृत्युक्ताखिलकर्मणां श्रितपरित्राणप्रवीणस्य सः ॥ १५ ॥
यः कौमारिलतन्त्रतः समतनोत्कर्मस्थितिं पावनीं
ब्रह्मोपादिशदाशु शोकधुतये यो नारदाय स्फुटम् ।
तं स्कन्दं परिचर्य साधु परया भक्त्या तदाप्तुं मह-
त्कर्मब्रह्मफलं सुधीः कलयते यः स्वामिशैले स्थितिम् ॥ १६ ॥
विष्णुरुर्विशाखाभिधमुडुयुगलं मध्यरत्नं यदीयं ।
सैषा चन्द्रार्कनिष्का लघुमणिभिरिवालंकृता चोपहोमैः ।
स्यूताहोरात्रसूत्रे विधिवदुपचिताधानतः सप्तविंशे
वर्षे नक्षत्रसत्रस्रगखिलमखभुक्प्रीतये येन पुण्या ॥ १७ ॥
सोऽयं स्वामिगिरौ गिरीशकृपया प्राप्य स्थितिं सुस्धिरां
विद्वद्वैदिकबान्धवैः सह सदा संभुक्तसंपद्भरः ।
श्रौतैः सञ्चरितैरुपास्तिसुभगैराराधयन्नीश्वरं ।
श्लाघ्यः श्रोत्रियपुत्रपौत्रसहितो जीयात्सहस्रं समाः ॥ १८ ॥
परिष्कुर्वन्नेतत्पुरमभिजनश्रोत्रियबुधा-
श्रितागारैरुद्दामभिरुपवनाभोगसुभगैः ।
सुमेधोभिर्वेदत्रयविविधशास्त्राभ्यसनतः
समुद्रुष्टं छात्रैरशनवसनाभ्यङ्गसुहितैः ॥ १९ ॥
कुमारेशं भक्त्या चिरमुपचरन्भूषणगणै-
रुदारैस्तैस्तैरप्युपचिततरैरुत्सवभरैः ।
प्रसादास्योञ्चैः श्रियमनुभवन्भव्यविभव-
श्चिरं जीवन्नव्याद्भुवनमखिलं त्र्यम्बकसखः ॥ २० ॥
तदीयायाः पात्रं निरुपधिदयायाः श्रितगणै-
र्गणेयस्तेनैवार्पितवसुकृतैः कैश्च सुकृतैः ॥