समाराध्य श्रीशं विधूतपितृदेवाघृणतया
कृतार्थस्तस्याज्ञादरवशतया जातकुतुकः ॥ २१ ॥
बुधो डुण्ढिनाम्ना जगति विदितो लक्ष्मणसुधी
मणेः श्रीमव्द्यासान्वयजलधिचन्द्रस्य तनयः ।
दधन्मुद्राकं राक्षखमिति नवं नाम शुभसं-
विधानं व्याचष्टेऽद्भुतरसनयं नाटकवरम् ॥ २२ ॥
श्रीमद्विशाखदत्तीये मुद्राराक्षसनाटके ।
कथोपोद्धातमाचक्षे संविधानावबुद्धये ॥ २३ ॥
नन्दन्ते क्षत्रियकुलमितिं पौराणशासनात् ।
कल्यादौ नन्दनामानः केचिदासन्महीभुजः ॥ २४ ॥
सर्वार्थसिद्धिनामासीत्तेषु विख्यातपौरुषः ।
स चिरादाशिषत्पृथ्वीं नवकोटिशतेश्वरः ॥ २५ ॥
वक्रनासादयस्तस्य कुळमात्या द्विजातयः ।
बभूवुस्तेषु विख्यातो राक्षसो नाम भूसुरः ॥ २६ ॥
दण्डनीतिप्रवीणः स षाङ्गुण्यप्रविभागवित् ।
शुचिः शूरतमो नन्दैर्मान्यो राज्यधुरामधात् ॥ २७ ॥
राज्ञः पत्नी सुनन्दासीज्ज्येष्ठान्या वृषलात्मजा ।
मुराख्या सा प्रिया भर्तुः शीललावण्यसंपदा ॥ २८ ॥
स कूदाचित्त्तपोनिष्ठमतिथिं गृहमागतम् ।
अर्घ्यपाद्यादिभिर्भक्त्या सभार्यः समपूपुजत् ॥ २९ ॥
तस्य पादोदकं पत्न्योरुपर्युक्षांबभूव सः ।
ज्येष्ठाया न्यपतन्मूर्घ्नि नवपादोदबिन्दवः ॥ ३० ॥
एको मुरायास्तं भक्त्या मूर्ध्ना प्रह्वेण साग्रहीत् ।
तदादरं वीक्ष्य तस्यां प्रससादाधिकं द्विजः ॥ ३१ ॥
मुरा प्रासूत तनयं मौर्याख्यं गुणवत्तरम् ।
सुनन्दा बहुगर्भाढ्यां मांसपेशीमसूत सा ॥ ३२ ॥
नवास्यां गर्भशकलान्यासंस्तानि तु राक्षसः ।
तैलद्रोणीषु निक्षिप्य यत्नेन समपूपुषत् ॥ ३३ ॥