पृष्ठम्:Mudrarakshasa.pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१६
मुद्राराक्षसे

( पुरुपं प्रति[१] ।) भद्र अस्मद्वचनादुच्यन्तां भद्रभटप्रमुखा यथा-'अ- मात्यराक्षसेन विज्ञापितो देवश्चन्द्रगुप्तः प्रयच्छति मलयकेतवे पित्र्यमेव विषयम् । अतो गच्छन्तु भवन्तः सहानेन । प्रतिष्ठिते चास्मिन्पुनरागन्तव्यम्” इति ।

 पुरुषः–जं अजो[२] आणवेदि त्ति । ( परिक्रामति ।) (क)।

 चाणक्यः–भद्र,[३] तिष्ठ तिष्ठ । अपरं च वक्तव्यो अमात्यराक्षसलाभेन सुप्रीतश्चन्द्रगुप्तः [४]समाज्ञापयति य एष श्रेष्ठी चन्दनदासः स पृथिव्यां सर्वनगरश्रेष्ठिपदमारोप्यतामिति ।


 ( क ) यदार्य आज्ञापयतीति ।


मोक्षणीय इति, तथापि राक्षसस्य साचिव्यग्रहणप्रथमप्रार्थनावश्यं मानयितव्येत्यर्थः ॥

 भद्रभटप्रमुख इति । भद्रभदायः राक्षसस्य सचिव्यनिर्वाहाध्यवसाये संदिहानास्तद्वचनं चन्द्रगुप्तवचनं च न प्रमाणीकरिष्यन्तीत्यस्मद्वचनादित्युक्तम् । किंच। अमात्यराक्षसेन विज्ञापित इति वचनं स्वयं तथापकृतेनापि राक्षसेन स्वस्मिन्नेवमुपकृतमिति राक्षससौजन्यं मलयकेतुना ज्ञातव्यमिति ॥


  1. For प्रति B. E. N. have अवलोक्य. For अस्मद्व° B. N. read मद्व. E,has °द्व° simply. For प्रमुखा B. N. E. read प्रभृतयः Omitting यथा; B. E.N, also read राक्षसविज्ञा for राक्षसेन विज्ञा For पित्र्य seems to read 'पि स्वमेव B. N. om, final इति
  2. देवो M R.; the whole speech om. E.;परिक्रा° om, in B. N.; वेदीती परि. P.
  3. B.N. read तिष्ट तावत् । भद्र भद्र एषमपरमुच्यतां विजयपालो दुर्गपालक्ष्च; E. has अपरमुच्यतां विजयो दुर्गपालः P reads अपरं वक्त्तव्यं दुर्गपालः R.om one तिष्ट and reads दुर्गपाल्यः; R.om राक्षसः B.E.N. read अभात्यराक्षसस्य गृहीतशस्त्रस्य प्रीत्या देवक्ष्च &c.
  4. A M P read सोयमाज्ञा; R आज्ञा; E om all from अमात्य down to this. B,E N R om. य: and स: further on; E. om. श्रेष्टी: B E. N. read तावत् after एष : For सर्वनगर B N H read सर्वेषु नगर्रेषु, E सर्वनगरेषु.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/३०३&oldid=329389" इत्यस्माद् प्रतिप्राप्तम्