पृष्ठम्:Mudrarakshasa.pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१७
सप्तमोऽङ्कः ।

[१]अपि च विना वाहनहस्तिभ्यः क्रियतां सर्वमोक्षः' इति । अथवानात्यराक्षसे नेतरि किमस्माकं प्रयोजनमिदानीम् ।

विनों[२] वाहनहस्तिभ्यो मुच्यतां सर्वबन्धनम् ॥
पूर्णप्रतिज्ञेन मया केवलं बध्य[३]ते शिखा ॥ १७ ॥

 पुरुषः---जं अज्जो आणवेदि त्ति । ( निष्क्रान्तः ।) (क)

 चाणक्यः ---भो राजन् चन्द्रगुप्त, भो[४] ' अमात्य राक्षस, उच्यतां किं वां भूयः प्रियमुपकरोमि।


 ( क ) यदार्य आज्ञापयतीति ।


 विना वाहनहस्तिभ्य इति । ततः प्रविशति मुक्ता शिखां परिभृशन्निति मुखसंधावुपक्षिप्तस्य बीजस्यैव मया निर्वहणं कृतमित्याह--‘तीर्णप्रतिज्ञेन मया केवलं बध्यते शिंखा' इति ।

 भो राजन्निति । इदानीं चन्द्रगुप्तस्य राज्यलक्ष्मीस्थिरीकरणाव्यवसायाद्वृषलशब्दमपहाय राजनिति संबोधनम् । किंच सलयकेतुनिग्रहराक्षससंग्रहरूपं चन्द्रगुप्तस्य प्रियं कृतं मलयकेतुजीवनदानस्वराज्यप्रतिष्ठापनरूपचन्दनदासबन्धमोचनसकलनगरश्रेष्ठिपदलाभरूपं च राक्षसस्य महस्प्रियमनुष्ठितम् । अतोऽप्यधिक युवयोः किं करोमीत्याह--किं वां भूय इति ।


  1. B. E. om. अपि च and have instead पुरु°। जं अमज्ञ्चो (अज्जो E. )आणवेदित्ति निष्क्रान्तः चाण. चन्द्रगुप्त किं ते भूयः प्रियं करोमि ।। राजा । किमत & c. as on next page चाण° विजये उच्यतां दुर्गपालो विजयपालश्च अमात्यराक्षसपरिग्रहेण प्रीतो देवचन्द्रगुप्तः समाज्ञापयति विना & c. N, has अन्यञ्च for अपि च; for वा...भ्यः B. N. read हस्त्यश्वसू, P. वा...भ्यासू, E. वा.••हस्तिभ्यः; B. E, N. add बन्ध before मोक्ष and E. om. इति For अस्माकम् B. N. read हस्त्यश्वेत, E. हस्तिभिः ; E. om. इदानीम्, B, N. have तत् before it.
  2. सह B. N.; for: हस्तिभ्यो B. N. read हस्तिभ्याम्, E. युग्येभ्यो; E also reads पूर्वं for सर्वं before बन्धनम्: A, P. read तीर्णप्रतिज्ञेन.
  3. B. N. H. read इति शिखां बध्नाति before this, and for पुरु B. reads प्रति; N. om. this speech and E. also; P, reads °वेदीति नि; B. reads निष्क्रान्ता.
  4. B. E. Om. भो •••भो and read तदुच्य° for उच्य° and ते (भूय ) for वाम्; P. reads भूयः before किम् and M R. read उपहरामि for° उपकरोमि.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/३०४&oldid=329394" इत्यस्माद् प्रतिप्राप्तम्