पृष्ठम्:Mudrarakshasa.pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१४
मुद्राराक्षसे


नन्दस्नेहगु [१]णाः स्पृशन्ति हृदयं भृत्योसि तद्विद्विषां
 ये सिक्ताः स्वयमेव वृद्धिमगमंश्छिन्ना[२]स्त एव द्रुमाः ।
शस्त्रं मित्रशरीररक्षणकृते[३] व्यापारणीयं मया
 कार्याणां गतयो चिधेरपि न यन्त्याज्ञाकरत्वं चिरा[४]त् ॥१६॥


 (प्रकाशम् ।) विष्णुगुप्त[५], नमः सर्वकार्यप्रतिपत्तिहेतवे सुहृत्स्नेहाय । का गतिः । एष प्र[६]ह्वोस्मि ॥

 चाणक्यः -( सहर्षम् ।) वृषल[७] वृषल, अमात्यराक्षसेनेदानीमनुगृहीतोऽसि[८] । दिष्टया वर्द्धते भवान् ।

 राजा-- आर्यप्रसाद एष चन्द्रगुप्तेनानुभूयते ।


 नन्देति । ये नन्दाः स्वयमेव मया सिक्ताः गर्भपतनात्प्रभृति तैलद्रोणीनिधानादिना महता परिक्लेशेन परिपालिताः सन्तः वृद्धिमगमंस्ते संप्रति नष्टाः तद्गुणाकृष्टहृदयस्यापि मम तेषां विद्विषो मौर्यस्य भृत्यत्वं मित्रशरीररक्षणार्थमवश्यमभ्युपेयत्वेन प्रसक्तमित्यहो कार्याणां गतिवशाद्विधिविलसितमप्यन्यथाभवतीति खिद्यते । कार्याणां गतयः बिधेरप्याज्ञाकरत्वं चिरान्न यन्ति । अतिप्रबलोऽपि विधिः कार्यगतिवैचित्र्यात्कार्यगतिकिंकर इच भवतीत्यर्थः ॥ १६ ॥

 एष प्रह्वोऽस्मीति । इदं प्राप्तकार्यानुमोदनमाभाषणमङ्गम् ॥

 आर्यप्रसाद एष इति । इदं लब्धस्थिरीकरणं कृतिर्नामाङ्गम् ॥


  1. For गुणाः B. N. G. read कणः; for हृदयं, हृदये; for °द्विषो, द्विषाम्.
  2. For वृ...न्ना B. N. read पाणिपयसा छेद्या. H. does not read this verse here but before the concluding verse, with some alterations
  3. B. N. read °रीरकेषु सरुषा; and सदा for मया; G. reads °रीरकेषु परुषम्
  4. चिरसू G; for यन्त्या ...तु B. N. read यान्त्यालोचनागोचरमू
  5. भो before this B. E. N. G. and उपानय खङ्गम् after it B. N; from स्वग° प्रकाशम् om. in E.
  6. सज्जो B, N.; प्रसद्दवेमि (?) E.
  7. शस्त्रमर्पयित्वा after सहर्पम् B. N. one वृपल om. R.
  8. B. N. om. सि. and read गृहीतशस्त्रेण before अनुगृहीतो; E. reads गृहीताधिकारेण and om. सि; G. agrees with our text and reads स्मि° for सि; P. also reading °पि for: "सि.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/३०१&oldid=329353" इत्यस्माद् प्रतिप्राप्तम्