पृष्ठम्:Mudrarakshasa.pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१३
सप्तमोऽङ्कः ।

 चाणक्यः--राक्षस[१],योग्योऽहं न त्वं योग्य इति किमनेन पश्य।

अश्वैः सार्द्धमजस्रदत्तकविकैः[२] क्षामैरशून्यासनैः
 स्नाना[३]हारविहारपानशयनस्वेच्छासुखैर्वर्जितान् ।
माहात्म्यात्तव[४]पौरुषस्य मतिमन्दृप्तारिदर्पच्छिदः
 पश्यैतान्परिकल्पना[५]व्यतिकरप्रोच्छूनवंशान्गजान् ॥ १५ ॥

 अथवा किं बहुन[६] । न खलु भवतः शस्त्रग्रहणमन्तरेण चन्दनदासस्य जीवितमस्ति ।

 राक्षसः---( स्वगतम्[७] ।)


 अश्वैरिति । स्नानाहारादिवर्जनादेव क्षामैः कृशैरजस्रदत्तकविकैरशून्यासनै; अनपनीतखलीनपल्याणैः सदा संनद्वैरियर्थः । परिकल्पनाव्यतिकरेण सदा संनाहप्रसङ्गेन पल्याणापनयाभावात्प्रोच्छूनाः शोफरुजा व्याप्त वंशाः पृष्ठास्थिभागा येषां तान्पश्येति । आदरेण पुनः पश्येति प्रयोगः । मतिमतः दृप्तारिद्र्पच्छिदः पौरुषशालिनश्च तव माहात्म्यादिति साचिव्याय त्वमेव योग्य इति प्रवणकर्तुं प्रशंसा ॥१५॥

 किं बहुचेति अस्मत्परिक्लेशकथनेन किं प्रयोजनम् । साचिव्यपदं भवतावश्यमङ्गीकर्तव्यमित्याह -न खल्विति ॥


  1. अमात्य before राक्षस B. E. N.; for" राक्षस P; for what follows B, N.read योग्योहमयोग्यो भवानिति कथमेतत् ; E. reads न योग्योहं त्वं योग्य इति किमनेन । पश्य नाम:
  2. विका B. N. E. G.; कालिकैः R.; °न्यासनानू B. N.
  3. नानाहार G.; विनोद for विहार N.; शयनैः A. P; खैर्निजितान् M. R,
  4. त्म्यादतिपौरुषस्य भवतो द्द B.;त्म्यं तव &c. as in next G.
  5. कल्पन A. P.
  6. किमनेन B. E. N. G.; अस्ति at the end om. in
  7. Om G.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/३००&oldid=329235" इत्यस्माद् प्रतिप्राप्तम्