पृष्ठम्:Mudrarakshasa.pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७८
मुद्राराक्षसे

 या[१]वदस्मिन्विषमदशापरिणामसुलभे भिन्नशिलातले मुहूर्तमुपविशामि ।( उपविश्याकर्ण्य च ।) अये, किमिदमसिन्काले पटुपटहशङ्खमिश्रो नान्दीनाद:[२] । य एष

प्र[३]मृद्गञ्छ्रोतॄणां श्रुतिपथमसारं गुरुतया
 बहुत्वात्प्रासादैः सपदि परिपीतोज्झित इव ॥
[४]असौ नान्दीनादः पटुपटहशङ्खध्वनियुतो
 दिशां द्रष्टुं दै[५]र्घ्यं प्रसरति सकौतूहल इव ॥ १४ ॥

 ( विचिन्त्य । ) [६]आ:।, ज्ञातम् । एष हि मलयकेतुसंयमनसंजातो राजकुलस्य-( इत्य[७]र्द्धोक्ते सासूयम् ।) मौर्यकुलस्याधिकपरितोषं पिशुनयति । ( सबाष्पम् । ) [८] कष्टं भोः, कष्टम् ॥


 यावदिति । विषमदुशपरिणामवत्सुलभे विषमदशा संप्रति सुलभा अतकिंतोपनता तथेदं शिलातलं दैवाल्लब्धमित्यर्थः॥

 प्रमृद्गन्निति । नान्दीनादो मङ्गलतूर्यध्वनिः । अविद्यमानः सारः प्रसारो विस्तारो यस्य तमसारं संकुचितमित्यर्थः । श्रुतिपथं गुरुतया प्रभूततया प्रमृद्गन्पीड्यन्। यथा संकुचिते रन्ध्रे गुरुर्मुद्रादिः प्रविशंस्तदुपमृद्गाति तद्वदित्यर्थः । बहुपीतं जलादि यथा उद्गिरन्ति तथा अन्तरमान्त नान्दीनादं प्रतिध्वनिव्याजेन सौधा उद्गिरन्तीवेत्युत्प्रेक्षा । दिशो दैर्ध्यं द्रष्टुमिति सकलदिग्व्यापित्वमुक्तम् ॥ १४ ॥ सासूयमितिः। एष नान्दीनादः । मौर्ये राजशब्दं वक्तुमसूया ।


  1. तद्याव” B, N; भग्नाग्र for भिन्न B. N.; भग्न E.
  2. B. N. E. H. read अये तत्किमयसकस्मिकः शङ्कपटहवि (Om. E.) मिश्री नान्दीनादः श्रूयते; A. P. G, in our text read निनादः for नादः; R. G. read तत्किमिदम् &c
  3. प्रमृध्नन् M.; प्रमथ्ननू R.; प्रकुर्वन् B.; प्रगृह्णन् N.
  4. अहो B, महानू. B.; रहो E. for: युतो
  5. दैर्ध्यँ द्र्ष्टम् B. N; °हलमिव for हल इव R. M.
  6. आं B. N. after which A. P, have भवतु and G. भवत्वेवभू instead of ज्ञातमु; R, for एष हि reads य एप and B. N. read कृत for संजातो,
  7. सासूयम् om. B. N.; “क्तौ सा A P ; क्तौनाधिकम् G.; क्तेनाधिकं खलु E.; मौर्यस्य कुलस्य परि° G. E.; मौर्यकुलस्य परि A P.
  8. R. M. om. कष्टं........ ष्टम्.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२६५&oldid=328297" इत्यस्माद् प्रतिप्राप्तम्