पृष्ठम्:Mudrarakshasa.pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७७
षष्ठोऽङ्कः ।


 अपि च[१]
  क्षताङ्गा[२]नां तीक्ष्णैः परशुभिरुदग्रैः क्षितिरुहां
   रुजा कूजन्तीनामविरतकपोतोपरुदितैः।
  स्वनिर्मोकच्छेदैः परिचितपरिक्लेशकृपया
   श्वसन्तः शाखानां त्रणमिव निबध्नन्ति फणिनः ॥१२॥

 एते च तपस्वि[३]नः
  अन्तःशरीरपरिशोषमुदग्र[४]यन्तः
   कीटैतिसुतिबिरस्त्रमिवोद्दमन्तः[५]
  छायावियोगमलिना[६] व्यसने निमग्ना
   वृक्षाः श्मशानमुपगन्तुमिव प्रवृत्ताः ॥ १३ ॥


 क्षताङ्गानामिति । उद्ग्रग्रक्लमभ्रुतां अत्यन्तशुष्कानां रुजा कूजन्तीनामिवेति गम्योत्प्रेक्षा । परिचितपरिक्लेशनिमित्तकृपयेवेति फणिनां स्वाभाविकं श्वसनं कृपाहेतुत्वेनोत्प्रेक्ष्यते । यथा केचित्कृपालवः परिचितजनानां रुजा क्लिश्यमानानां तीक्ष्णशत्रव्रणान्क्रुपया दुःखेन निश्वसन्तः पटच्छेदैर्निवनन्ति तद्वदित्युत्प्रेक्षा ॥ १२ ॥

 अन्तःशरीरेति । तपस्विनो दीना जलसेकाभावात् अन्तःशोपमुपदर्शयन्तः कीटक्षतिधृतिभिः कीटक्षतिरन्ध्रनिर्यासैरवसश्च उद्वमन्त इव छायाचियोगेन निष्पर्णतया छायाभावेन मलिनाः शुष्का इत्यर्थः । वृक्षाश्छायावियोगमालिना आतपछिष्टा व्यसने निमग्नाः नन्दबन्धवः इव नन्दन श्मशानं तत्रैव विद्यमानमुपगन्तुं प्रवृत्ता इवेत्युत्प्रेक्षा ॥ १३ ॥


  1. B. N. add अत्र after this.
  2. क्षताङ्कीनाम् R. N. H.; अव्यङ्गनाम्. E;रुदग्रमभृताम् for °रुदणैः क्षितिरुहां A. R. G. E. N. H.
  3. स्विनो वृक्षाः B.N; °स्विनो. D.
  4. मुदीर° P. N. H. 'सुदर° A.'सुपश्र B.
  5. कीटक्षतिं शुचमिचातिगुहं वहन्तः B. ,E.N. G. H; for क्षति in our text P. has क्षत
  6. मलिनैर्घनैर्नमग्नाः G.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२६४&oldid=328294" इत्यस्माद् प्रतिप्राप्तम्