पृष्ठम्:Mudrarakshasa.pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६०
मुद्राराक्षसे

भागुरायणः-- कुमार, कृतं कालहरणेन । सांप्रत कुसुमपुरोप- रोधाप्याज्ञाप्यन्तामस्मद्धलानि ।

गौडीनां लोधधूलीपरिमलवहुलान्धूमयन्तः कपोला-
न्क्लिश्नन्तः कृष्णिमानं भ्रमरकुलरुचः कुञ्चितस्यालकस्य ।
पांशुस्तम्बा बलानां तुरगखुरपुटक्षोभलब्धात्मलाभाः
शत्रूणामुत्तमाङ्गे गजमदसलिलच्छिन्नमूलाः पतन्तु ॥ २३ ॥

( सपरिजनो निष्क्रान्तो मलयकेतुः ।)

राक्षसः—(सावेगम् ) हा धिक्कष्टम् । तेऽपि घातिताश्चित्रवर्मादयस्तपस्विनः । तत्कथं सुहृद्विनाशाय राक्षसचेष्टते न रिपुविनाशाय । तत्किमिदानीं मन्दभाग्यः १०करवाणि ॥


स्वपक्षबलहीनमेनं भद्रभटादिभिर्निग्राहयितुं त्वरयति गौडीनामिति । लोध्रपुष्पाणां धूली परागस्तस्य परिमलो लेपजनितो गन्धविशेषस्तेन बहु- लान्व्याप्तान् गौडीनां गौडस्त्रीणां कपोलान्धूमयन्तः धूमवतः कुर्वतः। मलि- नयन्त इति यावत् । णाविष्टवद्भावेन मतुपो लोपः । गौडस्त्रियः कपो- लान्लोध्ररजोभिरलंकुर्वन्तीत्यतस्तेषां तत्परिमलबहुलत्वम् । तथा तासामेव भ्रमरकुलरुचः नीलस्य कुञ्चितस्य संयमितस्यालकस्य कृष्णिमाणं नैल्यं क्लिश्नन्तोऽभिभवन्त इत्यर्थः । बलाना सैन्यानां तुरगखुरपुटक्षोभेण लब्धा- त्मलाभा: जनिता: पांशुस्तम्बाः गजमदसलिलैश्छिन्नमूलाः सन्तः शत्रूणा- मुत्तमाङ्गे पतन्तु ।। २३ ॥


१ Om. M. R, G. E; G. E. add एव after सांप्रतमु; B, N, read शी- धमेव. २ °पुररोधाय M. R.; पुरमेव रो° G; प्रतिष्ठन्ताम् for अज्ञाप्यन्ताम् B. E, N. G. ३ बह° G.; धवलालू B. E. N. H; धूम्रयन्तः B. E. N. G. H, ४ किशन्तः G.; भ्रमरकुलानिभं H. ५ व्यूहा for'स्त° B. N; °स्तम्भाः H.; for पुट R. has पट; M. पुटी and for क्षोभ. B.E N. G. क्षेद. ६ क्लिन्नमूलाः M. G. E.; किन्नमालाः R. ७ B. N, read इति स...नो निर्गतो मल°; E. reads निष्क्रान्तः स...नौ मल°, ८ Om, M. P. R.; कष्टं तोपि om. in E. M. R. G.; B. N. after तेपि read हतास्तपस्विनश्चित्रवर्मादयस्तत्कथमू &c. ९ B, N. read हृन्नाशा;°E. reads रिपोर्विन further on. १० करवाणि मन्दभाग्यः B. E. N. G.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२४९&oldid=207062" इत्यस्माद् प्रतिप्राप्तम्