पृष्ठम्:Mudrarakshasa.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६१
पञ्चमोऽङ्कः।


किं गच्छामि तपोवनं न तपसा शाम्येत्सवैरं [१]मनः
 किं भर्तृननुयामि जीवति रिपौ स्त्रीणाभिर्य योग्यता ।
किं वा खङ्गसखः पताम्यरिबले नै[२]तञ्च युक्तं भवे-
 ञ्चेतश्चन्दनदासमोक्षरभस रुन्ध्यात्कृ[३]तघ्नं न चेत् ॥ २४ ॥


(इति निष्क्रान्ताः सर्वे ।)

पञ्चमोऽङ्कः ।


 किं गच्छामीति । जीवति रिपाविति शत्रुवैरनिर्यातनमकृत्वा स्त्रीवदनुमरणमयुक्तमिति भावः । खङ्गसख इति । खङ्गमात्रसहायेनारिबलं कृत्स्नं क्षपयितुं समर्थोऽस्मि अथापि चन्दनदासस्योपकारिणो मोक्षो न भवेदिति रभसं रभसवदुत्सुकं चेतः रुन्ध्यात् । अरिबलक्षपणान्मां रोद्धुं प्रवर्तत इत्यर्थः । प्रवर्तनायां लिङ् । न चेत् न रुन्ध्याचेत्कृतघ्नं भवेदित्यन्वयः । पराक्रमपक्षे चन्दनदासविषये कृतघ्नतादोषः स्वस्यापरिहार्यः स्यादिति भावः । अप्यकार्यशतं कृत्वा येनकेनप्युपायेन चन्दनदासमोचनमेव संप्रत्यावश्यकत्वेनापतितम् । अतस्तत्रैव प्रयतिष्य इत्यत्र तात्पर्यम् ॥ २४ ॥

 इति श्रीयम्बकयज्वप्रभुवर्याश्रितढुण्ढिराजव्यासयज्वविरचिते मुद्राराक्षसनाटकव्याख्याने पञ्चमोऽङ्कः समाप्तः ॥




  1. पुनः M. R.
  2. नेदं न युक्तम् B, N.; नैतन्न युक्तम् E,
  3. कृतज्ञम्. R.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२५०&oldid=327850" इत्यस्माद् प्रतिप्राप्तम्