पृष्ठम्:Mudrarakshasa.pdf/२४८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


                                   पञ्चमोऽङ्कः ।
                                                                      १५९

मलयकेतुः--(सक्रोधम् ।) भासुरक, आज्ञाप्यतां शेखरसेनः---- “य एते राक्षसेन सह संहत्तामुत्पाद्यास्मच्छरीरद्रोहेण चन्द्रगुप्तमारा-- धयितुकामाः पञ्च राजानः कौलूतश्चित्रवर्मा मलयनृपतिः सिंहनादः काश्मीरः पुष्कराक्षः सिन्धुराजः सुषेणः पारसीकाधिपो मेघनाद इति, एतेषु त्रयः प्रथमे मदीयां भूमिं कामयन्ते ते गम्मीरश्वभ्रम- भिनीय पांशुभिः पूर्यन्ताम् । इतरौ हर्स्तिबलकामुकौ हस्तिनैव घात्येताम्’ इति ।

   पुरुषः तथा । ( इति निष्क्रान्तः।)
   मलयकेतुः--(सक्रोधम् ।) राक्षस, राक्षस, नाहं विश्रम्भधाती

राक्षसः । मलयकेतुः खल्वहम् । तद्गच्छ । समाश्रीयतां सर्वात्मना चन्द्रगुप्तः। पेश्य ।

      विष्णुगुप्तं च मौर्यं च सॅममप्यागतौ त्वया ।
      उन्मूलयितुमीशोऽहं त्रिवर्गमिव दुर्नयः ॥ २२ ॥

विष्णुगुप्तमिति । दुर्नयदृष्टान्ते स्वस्य दौरात्म्यं रोषावेशेनावशादु- द्धाटितम् ॥ २२ ॥


१ Om. B, twice in E; B. N. G. read शिखरसेनः,E. सिखसेनः and all four add सेनापतिः after this; G reads यतः for ये' and B. N. read एतेन for एते. २ M. R. om. सह; लौहार्दम् for सुहृत्ताम् B. N; B. E. N. read °रीराभिद्रोहेण ३ °यितुमुद्यताः E. which and B. N. G. add तद्यथा after राजानः ; नरपतिः for °नृपतिः B. E. N.; जनधिपः G. ४ °धिराजो. B, N; for मेघनाद E. has मेघार्क , N. G. मेघाक्ष, B. मेघाख्य ( or मेघाक्ष as a variant ); for एतेषु B. N. read तत्र तेषां मध्ये ये; G. अन्न य एते; E. अत्र य एतेषाम् ; प्रथमम् for प्रथमे R. M. G.; प्रधानतमाः प्रथमा B. N.; प्रथमतरा E. which reads प्रार्थयन्ते for कामयन्तेः ५ E. has before this तेभ्यो भूभिरेव दीयताम्; M. R G. E. read गम्भीरम्; for अभिनीय M. R. read आनीय; B. N. उपनीय ६ Before this B. N. have तु द्वौ; P. A. E. तु; B. N. Read °बलकामौ ;E. बलकामिनौ; M. बलकोशकामुकौ. For घात्येताम् A. P. read खाद्येताम्- ७ तहेत्ति M. R, जं कुमारो आणवेदित्ति B. N.; °वेदि E. ८ R.G.E.M. om. सक्रो°; G. E. read राक्षस only once.; M. Om. entirely. ९ समाश्रय चन्द्रगुप्तम्. M. R.; समा...गुप्त इति. B. N, G. agrees with our text adding त्वया before चन्द्र'; B. E. N. om. पश्य १० सार्धम°. E. ११ दुर्णयः G. E.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२४८&oldid=160656" इत्यस्माद् पुनः प्राप्तिः