पृष्ठम्:Mudrarakshasa.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२७
पञ्चमोऽङ्कः ।

तदाज्ञां कुर्वाणो हितमहितमित्येतदधुना
 विचाराति[१]क्रान्तः किमिति परतत्रो विमृशति ॥ ४ ॥

( ततः प्रविशति प्रतीहार्यनु[२]गम्यमानो मलयकेतुः ।)

 मलयकेतुः--([३]स्वगतम् ।) अहो, राक्षसं प्रति विकल्पबाहुल्यादाकुला मे बुद्धिर्न निश्चयमधिगच्छति । कुतः।

भक्त्या नन्दकुलानुरागड्ढया नन्दाच्यालचिन
 किं चाणक्यनिराकृतेन कृतिना मौर्येण संघा[४]स्यते ।
स्थैर्यं भक्तिगुणस्य वाधि[५]
गणयन्किं सत्यसंधो भवे
 दित्यारूढकुलालचक्रमिव मे चेतश्चिरं भ्राम्यति ॥ ५ ॥

( प्रकाशम् ।) विजये, क भागुरायणः ।


कार्योपक्षेषणं प्रथनम् । कार्यस्य मलयकेस्वतिसंधानेन राक्षसवशीकरणस्योपक्षेपणात् ॥ ४ ॥

भक्त्या इति । नन्दन्वयालम्बिना किं मौर्येंण संधास्यते किं वा भक्तिगुणस्य मयि मया वा क्रियमाणस्य स्थैर्यं दाढ्य अधिगणयन् आधिक्येन पश्यन् सत्यसंधः सत्या संधा नन्दराज्यं सर्वं तवैवास्त्विति पूर्वं कृता प्रतिज्ञा यस्य स तथोक्तो भवेत् । नन्वंश्यत्वेन नन्दकुलानुरागजनिता भक्तिमौर्य दृढा भवितुमर्हति । सत्यसंधत्वानुरोधेन मयि च केवलो भक्तिगुणो दृढो भवितुमर्हतीत्युभयकोटिकः संशयः । तत्रापि मौर्यसंधानकोटि: प्रबलेति ध्वनयितुं चाणक्यनिराकृतेनेति विशेषणं राक्षसस्य मौर्यसाचिव्याभिलाषहेतुगर्भम् । कृतिनेति च विशेषणं लब्धदुर्लभराज्यत्वात्कृ तकृत्यः सन्पुनश्चाणक्येन जितकाशिना दुर्विधेयेन मौर्यां न संदधीतेति ध्वनयितुम् ॥ ५ ॥


  1. ‘न्निःऋ° E.; यत° for परत° E.
  2. °गतो B. N.
  3. आत्मग° B; B. D.N. G. have मे here after प्रति; R. om. it entirely; G. E. P. H. read चि तर्क for विकल्पः
  4. °स्यति R, IE.
  5. °धिगु A.विग B. B. N. H.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२१६&oldid=325655" इत्यस्माद् प्रतिप्राप्तम्