पृष्ठम्:Mudrarakshasa.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२६
मुद्राराक्षसे


( प्रकाशम् ।) भद्र भासुरक, न मां दूरी[१]भवन्तमिच्छति कुमारः ।

 अतोऽस्मिन्नेवास्थान [२] मण्डपे न्यस्यतामासनम् ।

 पुरुषः--ए[३]दं आसणं । उपविशदु अज्जो । (क )

 भागुरायणः-(उपविश्य ।) भ[४]द्र, यः कश्चिन्मुद्रार्थी मां द्रष्टुमिच्छति स[५] त्वया प्रवेशयितव्यः ।

 पुरुषः-जं [६]अज्जो आणवेदिति । (निष्क्रान्तः ।) ( ख )

 भागुरायणः—( स्व[७]गतम् ।) कष्टमेवमप्यसासु स्नेहान्कुमारो मलयके[८]तुरतिसंधातव्य इत्यहो दुष्करम् । अथवा ।

कुले लज्जायां च स्वयशसि च माने च विमुखः
शरीरं विक्रीय क्षणिकमपि लो[९]भाद्धनवति ।


 ( क ) एतदासनम् । उपविशत्वार्यः ।

 ( ख ) यदाये आज्ञापयति ।


 पसंहाराद्वहुप्रापितफलेत्युक्तम् । ईदृशी नयविदश्चाणक्यस्य नीतिर्निय तिरिव चित्राकारा नियतेश्चणक्यनीतेश्च कार्याणां विचित्राकारता कारणे उपचर्यते ॥ ३ ॥

 न्यस्यतामिति । मुद्रादनार्थे कटकद्वार्यवस्थानं दूरीभवनमित्याशयः । एवमपि क्षणमात्रं दूरावस्थानरूपं विरहमसहमान इत्यर्थः ।

 अतिसंधातव्य इति । यत्कष्टं पापं दुष्करमित्यन्वयः । उक्तं कप्टं समा धते --अथवेति ।

 कुले इति । विचारातिक्रान्तः । अतिक्रान्तविचारसमय इत्यर्थः । इदं


  1. °न्तमतिगच्छ° G.
  2. ण्ट M. R.; विन्य° in B.E.N. G. for following word; A. om. ‘मा.
  3. इदम् E; इमम् C ; नं for णं G.; °स for श R. G. E.
  4. add भासुरक after this,
  5. OnP. td इति . P, A. G. : at the end.
  6. असो A.G.; अय्यो. B.: दीति. P: E. omitsति in text.
  7. सकरणममानम् ): ‘चमयम‘ for ‘वमप्यं E, नामायमस्मा° ]B. E, AN; यदस्म M. R. G.
  8. रभि G.E. अथवा om in A.P.
  9. धनलाभात् B. ; धनलोभात् G.E.N. क्षणिकधनलोभात् H.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२१५&oldid=325577" इत्यस्माद् प्रतिप्राप्तम्