पृष्ठम्:Mudrarakshasa.pdf/११५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


११४ मुद्राराक्षसे

   (आकाशमवलोकयन् सास्रम् ।) भगवति कमलालये, भृशमगुणज्ञासि । कुतः ।
   आनन्दहेतुमपि देवमपास्य नन्दं 
    सक्तासि किं कथय वैरिणि मौर्यपुत्रे ।
   दानाम्बुराजिरिव गन्धगजस्य नाशे
    तत्रैव किं न चपले प्रलयं गतासि ॥ ६ ॥
 अपि च अनभिजाते,
  पृथिव्यां किं दग्धाः प्रथितकुलजा भूमिपतयः 
    पतिं पापे मौर्य यदसि कुलहीनं वृतवती ।
  प्रकृत्या वा काशप्रभवकुसुमप्रान्तचपला
    पुरर्न्धीणां प्रज्ञा पुरुषगुणविज्ञानविमुखी ॥ ७ ॥
 अपि च अविनीते, तदहमाश्रयोन्मूलनेनैव त्वामकामां करोमि ।

(विचिन्त्य ।) मया तावत्सुहृत्तमस्य चन्दनदासस्य गृहे गृहजनं

 आनन्दहेतुमिति । स्पष्टम् ॥ ६ ॥
 दुःखावेशेन अनभिजाते इत्यादिगालनम् । अभिजाताः कुलीनाः ।
 पृथिव्यामिति । पुरन्ध्रीणामित्यर्थान्तरन्यासोऽलंकारः ———‘उक्तिरर्थान्तरन्यासः स्यात्सामान्यविशेषयोः' इति । भगवति कमलालय इत्यादि

राक्षसस्य वितर्कप्रतिपादनं वाक्यं रूपं नामाङ्गम् ॥ ७ ॥ विचिन्त्येति। आश्रयोन्मूलनहेतुमुपायं विचिन्त्य तमेव प्रपञ्चयति--- मया तावदित्यादिना । १ R. adds हा before this. २ नन्दमपास्य देवं R. ३ रक्ता B. N. G. H.; दुःकुल for वैरिणि E; धिक्कृत H.; दत्तक the MS. M. in H. ४ हे before this G. ५ पापं E.; कृत° for वृत° B. E. ६ प्रकृत्यैवाका°. R. M. ७.G. adds अयम् after अहम्.

८ °मीति G. ९ om. G. which also has निःक्षि° in the next

word but one; निःक्षमता for निर्गच्छता E.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/११५&oldid=161075" इत्यस्माद् पुनः प्राप्तिः