एतत् पृष्ठम् परिष्कृतम् अस्ति
॥ श्रीः॥
मत्तविलासप्रहसनं
श्रीमहेन्द्रविक्रमवर्मप्रणीतम् ।
(नान्द्यन्ते ततः प्रविशति सूत्रधारः।)
सूत्रधारः-
भाषावेषवपुःक्रियागुणकृतानाश्रित्य भेदान् गतं
भावावेशवशादनेकरसतां त्रैलोक्ययात्रामयम् ।
नृत्तं निष्प्रतिबद्धबोधमहिमा यः[१] प्रेक्षकश्च स्वयं
स व्याप्तावनिभाजनं दिशतु वो दिव्यः कपाली यशः॥
भोः! समासादितः खलु मया यवीयंसी भार्यामधिकृत्य समुत्पन्नव्यलीकायां ज्येष्ठायां मे कुटुम्बिन्यां युक्ततरः प्रसादनोपायः, यच्चिरस्याद्य वयं प्रेक्षाधिकारे परिषदा नियुक्ताः स्मः । तद् यावदेनामुपसर्पामि । (नेपथ्याभिमुखमवलोक्य) आर्ये! इतस्तावत् ।
(प्रविश्य)
नटी- (सरोषम् ) (क)[२] अय्य! किं चिरस्स काळस्स जोव्वणगुणभरमत्तविळासप्पहसणं (ओ ? दं)सेदुं आअदोसि ।