पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः॥ मत्तविलासपहसनं श्रीमहेन्द्रविक्रमवर्मप्रणीतम् । (नान्द्यन्ते ततः प्रविशति सूत्रधारः।) सूत्रधारः- भाषावेषवपुःक्रियागुणकृतानाश्रित्य भेदान् गतं भावावेशवशादनेकरसतां त्रैलोक्ययात्रामयम् । नृत्तं निष्प्रतिबद्धबोधमहिमा यः* प्रेक्षकश्च स्वयं स व्याप्तावनिभाजनं दिशतु वो दिव्यः कपाली यशः॥ भोः! समासादितः खलु मया यवीयसी भार्यामधिकृत्य समुत्पन्नव्यलीकायां ज्येष्ठायां मे कुटुम्बिन्यां युक्ततरः प्रसा- दनोपायः, यच्चिरस्याद्य वयं प्रेक्षाधिकारे परिषदा नियुक्ताः स्मः । तद् यावदेनामुपसामि । (नेपथ्याभिमुखमवलोक्य) आयें ! इतस्तावत् । (प्रविश्य) नटी- (सरोषम् ) (क) अय्य! किं चिरस्स काळस्स जोव्वणगुणभरमत्तविळासप्पहसणं (ओ ? दं)सेदु आअदोसि । (क) आर्य ! किं चिरस्य कालस्य यौवनगुणभरमत्तविलासपहसनं दर्श- यितुमागतोऽसि ।

  • करोतीत्यध्याहर्तव्यम।