पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मत्तविलासप्रहसनम् । सूत्रधारः -- यथाह भवती । नटी--- (क) ताए एव दाव दंसेहि, जा तुए रमइद- व्वा। सूत्रधारः -- त्वया सह दर्शयिष्यामीति । नटी-(ख) किं ताए एव्व णिउत्तो सि । सूत्रधारः-- एवमेतत् । अपिच , तत्र गता महान्तम- नुग्रहं लप्स्य से । नटी- (ग) तव एव्व खु एवं जुज्जइ। सूत्रधारः ---- भवति ! किमिव न युज्यते । त्वत्प्रयोग- परितोषिता परिषदनुग्रहीष्यतीति । नटी - (सहर्षम् ) (घ) एवं । लद्धो अय्यमिस्साणं प- सादो । सूत्रधारः-- बाढम् । लब्धः । नटी-(ड) जइ एवं , किं दे पिअक्खाणिअं देमि । सूत्रधारः - अलं प्रियाख्यानिकपुनरुक्तेन । पश्य , उद्भिन्नरोमाञ्चकपोलरेख- माविर्मयूखस्मितमञ्चितश्रु । (क) तयैव तावद् दर्शय, या त्वया रमयितव्या । (ख) किं तयैव नियुक्तोऽसि । (ग) तवैव खल्वेतद् युज्यते । (घ) एवम् । लन्ध आर्यमिश्राणां प्रसादः । (ङ) यद्येवं, किं ते प्रियाख्यानिकं ददामि ।