एतत् पृष्ठम् परिष्कृतम् अस्ति
| ३० | मत्तविलासप्रहसनम् |
शाक्यभिक्षुः-[१]किं एदं पि अन्भत्थणीअं । किं दे
पिअं करेमि ।
कपाली- यदि मे भगवान् प्रसन्नः,किमतः परमहमिच्छामि ।
शाक्यभिक्षुः- [२]गच्छामि दाव अहं ।
कपाली- गच्छतु भवान् पुनर्दर्शनाय ।
शाक्यभिक्षुः- (ग) तह होदु । (निष्क्रान्तः । )
कपाली • प्रिये देवसोमे ! गच्छावस्तावत् ।
( भरतवाक्यम् )
शश्वद् भूत्यै प्रजानां वहतु विधिहुतामाहुतिं जातवेदा
वेदान् विप्रा भजन्तां सुरभिदुहितरो भूरिदोहा भवन्तु ।
उद्युक्तः स्वेषु धर्मेष्वयमपि विगतव्यापदाचन्द्रतारं
राजन्वानस्तु शक्तिप्रशमितरिपुणा शत्रुमह्वेन लोकः ||२३||
(निष्क्रान्तौ । )
मत्तविलासप्रहसनं समाप्तम् ।
शुभं भूयात् ।