सामग्री पर जाएँ

पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
मत्तविलासप्रहसनम् १९

 कपाली- (कपालं परिष्वज्य )
चिरं मया चरितमखण्डितं तपो
 महेश्वरे भगवति भक्तिरस्ति मे ।
तिरोहितः स तु सहसा सुखेन न-
 स्त्वमद्य यत् कुशलि कपाल ! दृश्यसे || २१ ॥
 देवसोमा- [१] भअवं ! चन्दसमागदं विअ पओसं भवन्तं पेक्खन्तीए अज्ज आणन्ददी विअ मे दिट्ठी।
 पाशुपतः- दिष्टया भवान् वर्धते|
 कपाली- नन्वभ्युदयो भवतामेव ।

पाशुपतः- (आत्मगतम्) सत्यमेतत् - नास्त्यदोषवतां भयमिति यदयमद्य भिक्षुर्व्याघ्रमुखात् परिभ्रष्टः । ( प्रकाशम्) यावदहमिदानीमेव सुहृदभ्युदयकृतमानन्दं पुरोधाय भगवतः पूर्वस्थलीनिवासिनो[२] धूमवेलां प्रतिपालयामि । अयं चाद्यप्रभृति,

विरोधः पूर्वसम्बद्धो युवयोरस्तु शाश्वतः ।
परस्परप्रीतिकरः किरातार्जुनयोरिव ॥ २२ ॥


(निष्क्रान्तः पाशुपतः । )


 कपाली - भो नागसेन ! यन्मयापराधः कृतः, तत् प्रसन्नहृदयं त्वामिच्छामि ।


  1. ↑ भगवन् ! चन्द्रसमागतमिव प्रदोषं भगवन्तं पश्यन्त्या अद्यानन्दतीव दृष्टिः ।
  2. ↑ 'वे' क. पाठ:.